________________
पक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
पूर्वं त्वदीयतातस्य, वियोगेन तवाप्यथ । पश्चात्तापैस्तवाभक्ते-स्तापितं वह्निभिस्त्रिधा ॥ ७९ ॥ हतं घनै जनावाक्यैः, स्फुटितं हृदयं न यत् । त्वदम्बाया निरालम्ब, त्रिपरीक्षितवज्रति ॥ ८० ॥
पूर्वं त्वदीयतातस्य गोभद्रस्य वियोगेन अथ तवाऽपि वियोगेन, तव अभक्तेः अदानात् पश्चात्तापैः-इति त्रिधा वह्निभिः तापितम् । जनावाक्यैः जनानां अवाक्यैः दुष्टवाक्यैः । अत्र नञ् दुष्टार्थे । यथा-लज्जा चत्ता सीलं च खंडिअं, अजसघोसणा दिन्ना । जस्स कए पिअसही ! सो जणो 'अजणो' जाओ । घन:-मुद्गरैः हतं त्वदम्बायाः तव मातुः निरालम्बं निराधारं यत् हृदयं न स्फुटितं तत् त्रिपरीक्षितवज्रति-त्रिवारं परीक्षित वज्र तद्वत् आचरति तत्समं कठिनमित्यर्थः ॥ ७९ ॥ ८ ॥
वत्स ! मातुः कलत्राणां, परीक्षा वीक्षिता त्वया । धर्मस्येव तु धन्यस्य, प्रीतिनिर्वाहसुन्दरा ॥ ८१ ॥
वत्स ! मातुः कलत्राणां प्रियाणां च परीक्षा त्वया । वीक्षिता-दृष्टा । 'तु' किन्तु धर्मस्य इव धन्यस्य मुनेः प्रीति: निर्वाहसुन्दरा निर्वाहेण पारगमनेन सुन्दरा अस्ति ॥ ८१ ॥
हास्येऽवश्यं सहायः स्यात्, प्रायः पुंसां स्वसुः पतिः । जातः सुकृतकृत्येषु, धन्यो धन्यतमस्तु ते ॥ ८२ ॥
प्रायः पुंसां-पुरुषाणां स्वसुःपतिः भगीनिपतिः हास्ये अवश्यं सहायः स्यात् तु-परन्तु ते तव धन्यतमः-प्रकृष्टपुण्यवान् धन्यः सुकृतकृत्येषु सहायो जातः ॥ ८२ ॥
जगतीमान्यसौजन्य !, तप:श्रीधन्य ! धन्य हे । सहकृत्वा त्वमेवासि, मम पुत्रस्य संयमम् ॥ ८३ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१८॥