________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सूनुर्महामुनिर्मासोपवासी स्वयमागतः । प्रत्यलाभि मया यन्न, यावज्जीवमियं व्यथा ।। ७४ ॥
मासोपवासी स्वयं आगतः सूनः-पुत्रः महामुनिः मया यत् न प्रत्यलाभि न प्रतिलभ्यते स्म । इयं व्यथा| पीड यावज्जीवं भविष्यति ॥ ७४ ॥
हताऽहं हन्त दग्धाऽहं, स्वाङ्गजं यद् गृहाङ्गणे । नाजीगणं गणनया, भिक्षुकस्याऽपि निर्गुणा ॥ ७५ ॥
हन्तः खेदे । अहं हताऽस्मि । अहं दग्धाऽस्मि । यद् गृहाङ्गणे स्वाङ्गजं निजपुत्रं भिक्षुकस्यापि गणनया निर्गुणा अं न अजीगणं - न गणितवती ॥ ७५ ॥
त्वदागमोत्सवव्यग्रा, त्वां नाज्ञासिषमागतम् । विवाहव्याकुलेवाह, व्यस्माष पाणिपीडनम् ॥ ७६ ॥
'त्वदागमोत्सवव्यग्रा' तव आगमनोत्सवव्याकुला अहम् । आगतं त्वां न अज्ञासिषं-न ज्ञातवती । विवाहव्याकुला युवती पाणिपीडन-हस्तमेलनमिव । अहं व्यस्मार्ष विस्मृतवती ॥ ७६ ॥
नैवोत्तरमपि प्रादां, तदा तद् वत्स ! साम्प्रतम् । उत्तरं तव नास्त्येव, यज्जात ! जगतीतले ॥ ७७ ॥
तदा उत्तरमपि अहं न प्रादां-न दत्तवती । हे वत्स ! तत् साम्प्रतं युक्तमस्ति । यत् यस्मात् जात हे पुत्र ! जगतीतले भूतले तव उत्तरं अतिशायि किञ्चित् वस्तुजातं नास्ति एव ॥ ७७ ॥
कुविजातं भवेत्प्रायः कुमाता नैतदप्यसत् । निर्ममोऽप्यागतः सद्म, मयाऽदर्शि न पापया ॥ ७८ ॥
प्राय: कुविजातं-कुपुत्रं प्रति माता कुमाता न भवति, परन्तु एतदपि असत्-असत्यं जातम् । यत् सद्म-गृहं आगतः निर्ममोऽपि पुत्रः पापया मया न अदर्शि-न दृष्टः ।। ७८ ॥
82828282828282828282828282828282888
॥३१७॥