SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'स्नुषाः' पुत्रवध्वः । 'खाट्कुर्वते' खाट् इति शब्दं कुर्वते । 'खटके छे' इति भाषायाम् । भल्लितुल्याभिः पुत्रवधूभिः भिद्यमानाऽपि अहं न भेदं प्राप्नोमि तस्मात् कठिनाऽहमिति भावः ॥ ७० ॥ सत्यं त्याज्यसुखा भद्रा, पुण्यकर्मनिराकृता । त्वद्दानवञ्चिताया मे, प्रान्तेऽपि न परं जयः ॥ ७१ ॥ 'सत्यं' उचितम् । 'पुण्यकर्मनिराकृता' पुण्यकर्मभिः दानादिकैः सुकृतैः निराकृता रहिता । विष्टिपक्षे पुण्यकर्माणि पवित्रकार्याणि तैः निराकृता । ज्योति:शास्त्रानुसारेण भद्रायां पवित्रकार्याणि न क्रियन्ते । 'भद्रा' शालिमाता । पक्षेज्योति:शास्त्रप्रसिद्धा भद्रा । 'त्याज्यसुखा' त्याज्यं-त्यागयोग्यं सुखं यस्याः सा अस्ति । 'परं' परन्तु 'प्रान्तेऽपि' चरमेऽपि। 'त्वद्दानवञ्चितायाः' हे शाले ! त्वद्दानवञ्चितायाः । 'मे' मम । जयः न अभवत् । 'विष्टिपुच्छे ध्रुवं जयः' इति ज्योतिःशास्त्रवचनात् 'भद्रा' प्रान्ते विजयदायिनी भवति, किन्तु अहं प्रान्तेऽपि सुपात्रदानेन न विजयिनी अभवम् । अहो मे अधन्यता ! इति भद्राविलापः ॥ ७१ ।। भ्रान्ताऽस्मि धूर्तिता वाऽस्मि, धिर धिग् धत्तूरिताऽपि वा । मुषिताऽस्मि हहा वत्स ! हा निष्फलमनोरथा ॥७२ ॥ स्पष्टार्थः । धत्तूरिता-पीतधत्तूरा ॥ ७२ ॥ मया कामगवी गेहा-गता दण्डेन ताडिता । दत्वा कपाटौ व्यासेधि, पूर्णकुम्भकर: करी ॥ ७३ ॥ स्पष्टार्थः । कामगवी-कामधेनु: । 'पूर्णकुम्भकरः' पूर्णकुम्भः करे-शुण्डायां यस्य सः । करी-हस्ती । 'व्यासेधि' निषिद्धः ॥ ७३ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥३१६॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy