________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आ: ज्ञातं हेतुरत्रायं, मया जातोऽसि भद्रया । दम्भोलिश्चुलुकं लेभे, समुत्थाय यदग्रतः ॥ ६६ ॥
'आ: ज्ञातं' हुं... ज्ञातम् । अत्र अयं हेतुः । त्वं मया भद्रया जातोऽसि । 'यदग्रतः' ममाग्रे । 'दम्भोलिः' वज्रम् । 'समुत्थाय' आगत्य । 'चुलुकं' गण्डुषम् । 'लेभे' लभते स्म । वज्रादपि कठोरहृदयाहमिति भावः ॥ ६६ ॥
पूर्वमेवैकवत्साऽहं, विधिना वत्स ! निर्मिता । निजाङ्गज-सदाऽनिष्ट शङ्कापङ्काकुला भृशम् ॥ ६७ ॥
वत्स ! पूर्वमेव विधिना-ब्रह्मणा अहं एकवत्सा निर्मिता । कथम्भूता अहम् ? 'भृशं' अत्यर्थम् । 'निजाङ्गजसदानिष्टशङ्कापङ्काकुला' निजाङ्गजे-स्वपुत्रे सदानिष्टशङ्कापङ्कः-नित्यमप्रियशङ्काकर्दमैः आकुलाव्याकुला || ६७ ॥
त्वादृशस्तनयो यस्यास्तीव्र स्वीकुरुते व्रतम् । साऽपि जीवत्यहो ! माता, स्त्रीणां धिग् जीवितं दृढम् ॥ ६८॥ स्पष्टार्थः । कुन्ती देवी परं धन्या, सुतैः सह ययौ वनम् । कौशल्येव सशल्याऽहं, पतिपुत्रनिराकृता ॥ ६९ ॥ स्पष्टार्थः । कुन्ती पाण्डवमाता । कौशल्या श्रीराममाता । पतिपुत्रनिराकृता पतिपुत्रैः रहिता ॥ ६९ ॥ कथं न कठिना भद्रा, यस्याः पश्य निरन्तरम् । सकर्णा भल्लयः साराः, स्नुषाः खाट्कुर्वते हृदि ॥ ७० ॥
स्पष्टं पूर्वार्धम् । 'पश्य' विलोकय । 'यस्याः' मम । 'हृदि' अन्तःकरणे । 'सकर्णाः' चतुराः । भल्लिपक्षे कर्णसहिताः । (कर्ण-'कानो' इति भाषायाम्) 'साराः' प्रधानाः । पक्षे-आरसहिताः । आरं लोहविशेष: तेन सहिताः । 'भल्लयः' कुन्ताः ।
828282828282828282828282828282828282
॥३१५॥