________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'गिरिसमीरेण' वैभारगिरिवायुना । 'पुनः' भूयः । 'सचैतन्या' जागृता । 'शुचा' शोकेन । 'आकुला' विह्वला। शाले: वदनं विलोक्य मुहुः महुः विललाप विलपति स्म ॥ ६१ ।।
हा वत्स ! वत्स ! हा स्वच्छ ! हा पुत्र ! सुपवित्र हा ! । हा वीर ! धीर गम्भीर ! साधुकोटीरहीर ! हा ॥ ६२ ॥ स्पष्टार्थः । साधुकोटीरहीर-मुनिमौलिरत्न ! ॥ ६२ ॥ हा निर्मम ! हहाऽनीह!, हा नीरजनिरञ्जन ! हा काम्य ! साम्य ! हा सौम्य ! हहा तात्त्विक-सात्त्विक ॥६३ ॥
स्पष्टार्थः । अनीह-नि:स्पृह । 'नीरजनिरञ्जन' नीरजं-कमलं तद्वत् निरञ्जन ! । 'काम्य' स्पृहणीय ! । 'साम्य' समतामय ! ॥ ६३ ॥
निये म्रिये तवास्यस्य, न्युञ्छनं तव नेत्रयोः । बलि: क्रिये च ते यामि, निर्ममत्वेऽवतारणम् ॥ ६४॥
स्पष्टार्थः । आस्यस्य-मुखस्य । 'न्युच्छनं' प्रोञ्छनम् । 'लुछणुं' इति भाषायाम् । अवतारणं 'ओवारणु' इति भाषायाम् ॥ ६४॥
द्वात्रिंशत्तूलिकासुप्त ! तात ! तप्तशिलातले । लीनोऽपि न विलीनोऽसि, सुकुमार कुमार ! किम् ।। ६५ ॥
'द्वात्रिंशत्तूलिकासुप्त' द्वात्रिंशत्तूलिकासु (तळाइ इति भाषायाम्) सुप्त हे तात-प्रियनन्दन ! 'तातोऽभीष्ट पुत्रे स्यात्' इति वचनात् । 'तप्तशिलातले' तप्ते शिलातले । 'लीनोऽपि' स्थितोऽपि । 'सुकुमार' हे कोमल ! । किं न विलीनोऽसिकथं न द्रुतोऽसि ॥ ६५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१४॥