________________
श्री
शालिभद्र महाकाव्यम्
ERERERE
हंसी वीतंसवश्येव, झषी वा जालकीलिता । हरिणी बाणभिन्नेव, नितान्तं भ्रान्तमानसा ॥ ५७ ॥ निःश्वसन्ती स्खलन्ती च निपतन्ती पदे पदे । रुदती रोदयन्ती च भद्रा तं देशमासदत् ॥ ५८ ॥
'वीतंसवश्या' वीतंसे-पक्षिबन्धने वश्या आधीना । 'हंसीव' मराली इव । 'जालकीलिता झषी वा' जालेन कीलिता - बद्धा झषी मत्स्यी इव । 'बाणभिन्ना' शरविद्धा । 'हरिणी इव' मृगी इव । 'नितान्तं' अत्यन्तम् । 'भ्रान्तमानसा' भ्रान्तं मानसं यस्याः सा ॥ ५७ ॥ निःश्वसन्ती' दीर्घान् निःश्वासान् मुञ्चती । 'पदे पदे' प्रतिपदम् । 'स्खलन्ती' स्खलनं प्राप्नुवती । स्वयं रुदती अन्यानपि रोदयन्ती भद्रा तं देशं वैभारगिरिं यत्र शालिधन्यौ अनशनं प्रतिपन्नौ स्तः । 'आसदत् '
प्राप्ता ।। ५८ ।।
विस्मितः श्रेणिकोऽप्याशु, तत्रागान्मन्त्रिणा समम् । वीराधिवीरौ श्रीवीरस्वामिशिष्यौ विलोकितुम् ॥ ५९ ॥ विस्मितः श्रेणिकः अपि । 'आशु' क्षिप्रम् । 'मन्त्रिणा' अभयकुमारेण । 'समं' सह। 'वीराधिवीरौ वीरेभ्योऽपि वीरौ - शूरौ । ' श्रीवीरस्वामिशिष्यौ' शालिधन्यौ । 'विलोकितुं' द्रष्टुम् । 'तत्र' वैभारे। आगात् ॥ ५९ ॥ भद्रायाः विलपनम् -
शिलातले शयानौ सा, तौ वज्रघटिताविव । उत्कीर्णाविव निर्वर्ण्य, मुमूर्च्छ सपरिच्छदा ।। ६० ।। शिलातले शयानौ - कायोत्सर्गमुद्रया सुप्तौ । 'वज्रघटितौ इव' वज्रनिर्मितौ इव । 'उत्कीर्णौ इव' टङ्केन उल्लिखितौ इव । 'निर्वर्ण्य' विलोक्य । 'सपरिच्छदा' सपरिवारा 'सा' भद्रा । 'मुमूर्च्छ' मूच्छ प्राप्ता ।। ६० ।।
पुनर्गिरिसमीरेण, सचैतन्या शुचाकुला । विरोक्य वदनं शाले-विललाप मुहुर्मुहुः ॥ ६१ ॥
328
सप्तमः
प्रक्रमः
॥ ३१३ ॥