________________
पक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
'जगद्गुरुः' विश्वनाथ: वीरः । 'जगौ' उवाच । भद्रे ! 'स्वहितावहितौ' स्वहिते निजकल्याणे अवहितौ-जागृतौ । हिः निश्चये । 'तौ' शालिधन्यौ । 'वचनविज्ञानात्' अद्य माता तव पारण-कारणं भविष्यति' इति वचोविज्ञानात् । मया तव वेश्मनि गेहे । 'प्रहितौ' प्रेषितौ ॥ ५२ ॥
न निध्यातवती पुत्रं, ध्यायन्त्यपि तदागमम् । सुखेच्छुरिव सौख्यस्य, मूलं धर्ममिव स्वकम् ॥ ५३॥
'तदागर्म' पुत्रागमनम् । 'ध्यायन्ती अपि' स्मरन्ती अपि । त्वम् । पुत्रं न निध्यातवती-न दृष्टवती । क इव ? सुखेच्छु: सौरव्यस्य मूलं-कारणं स्वकं धर्ममिव न पश्यति ॥ ५३ ॥
युष्मदुत्तरमप्राप्य, वलितौ प्राग्भवाम्बया । धन्यया दत्तधना तौ, मासक्षपणपारणम् ॥ ५४ ॥ विधाय सह धन्येन, सुज्ञानौ मदनुज्ञया । इदानीमेव वैभारे, पादपोपगमं श्रितौ ॥ ५५ ॥
युष्मदुत्तरं अप्राप्य वलितौ-प्रत्यागतौ । 'प्राग्भवाम्बया' पूर्वभवस्य मात्रा धन्यया दत्तदध्ना दत्तेन दध्ना तौ मासक्षपणपारणम् ॥ ५४ ॥ 'विधाय' कृत्वा । 'धन्येन' मुनिना सह । 'मदनुज्ञया' मम अनुमत्या । 'सुज्ञानौ' शोभनश्रुतौ। इदानीमेव वैभारे पर्वते पादपोपगम-अनशनं श्रितौ-सेवेते स्म ॥ ५५ ॥
जगज्जीवातुभिस्तैस्तु, जिनेन्दोर्वचनामृतैः । पद्मिन्यस्ता: परिम्लाना, बभूवुरिति साम्प्रतम् ॥ ५६ ॥
'जिनेन्दोः' जिनचन्द्रस्य । 'जगज्जीवातभिः' जगतां जीवातुभि:-जीवनौषधैः । वचनामृतैः । 'पद्मिन्यः' सूर्यविकासिनीकमलिन्य: पद्मिनीस्त्रियः । 'ता:' शालिप्रिया: । 'परिम्लाना' परितः म्लानाः । 'बभूवुः' जाता: । इति 'साम्प्रतं' योग्यम् । भवत्येव म्लाना चन्द्रोदये किल पद्मिनी ॥ ५६ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१२॥