________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्वामिनं विधिवन्नत्वा, भद्रा साधुसभामभि । वेलां प्रतीव कमठी, दृशं प्रीतिमती ददौ ॥ ४८ ॥
स्वामिनं-महावीरं विधिवत्-विधिपूर्वकं नत्वा । 'वेलां' समुद्रजलवृद्धि प्रति कमठीव-कच्छपी इव । भद्रा । 'साधुसभामभि' मुनिपर्षदं प्रति । 'प्रीतिमती दृशं' प्रेममयीं दृष्टिम् । 'ददौ' अर्पितवती । साधुसभा विलोकिता इत्यर्थः ॥ ४८ ॥
पुरं स्वस्वजनेनेव, सुभिक्षं स्वधनेन वा । सूनुना शून्यमालोक्य, सदः सा खेदमासदत् ॥ ४९ ॥
'स्व-स्वजनेन' निजस्वजनेन । 'शून्य' रहितम् । 'पुरमिव' नगरमिव । 'स्वधनेन' स्वकीयेन द्रव्येण शून्यं सुभिक्षमिव-सुकालमिव । 'सूनुना' पुत्रेण शालिमुनिना शून्यं सदः-सभाम् । 'आलोक्य' दृष्ट्वा । 'सा' भद्रा । खेदंग्लानिम् । 'आसदत्' प्राप्ता ॥ ४९ ॥
साभिशङ्कमनाः सार्थ-वाही नाथं व्यजिज्ञपत् । क्व तौ नाथ ! सुचारित्रौ, धन्यशालिमहामुनी ॥ ५० ॥
'साभिशङ्कमनाः' अभिशङ्कया सहितं मनः यस्याः सा सार्थवाही भद्रा नाथं व्यजिज्ञपत्-नाथ-हे स्वामिन् ! तौ सुचारित्रौ-सुसंयमौ धन्यशालिमहामुनी व वर्तेते ? ॥ ५० ॥
साधु माधुकरी वृत्ति, चरन्तौ चारुचर्यया । मद्गेहे हेतुना केन, नायातौ ममतोज्झितौ ॥ ५१ ॥
'चारुचर्यया' सुन्दरगत्या । 'साधु' सम्यक्तया । 'माधुकरी वृत्ति' भ्रामरी भोजनवृत्तिम् । 'चरन्तौ' पालयन्तौ । 'ममतोज्झितौ' - ममताया: उज्झितौ-रहितौ । 'मद्गेहे' मम गृहे । केन हेतुना न आयातौ ? ॥ ५१ ॥
जगौ जगद्गुरुर्भद्रे ! स्वहितावहितौ हि तौ । मया वचनविज्ञानात्, प्रहितौ तव वेश्मनि ॥ ५२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३११॥