________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कुर्वती इव । मौक्तिक-शुभ्रकिरणव्याजात् हसन्तीव पृथ्वी शालिपत्नी: कथयति रे मुग्धाः ! अहं धन्यशालिपदैः स्पृष्टा, युष्माभिस्तु दर्शनमपि न प्राप्तमित्यर्थः ॥ ४३ ।।
अथ भद्रास्नुषाः क्षामाः, प्रियस्यैवानुकारतः । वसाना वाससी श्वेते, श्रीशालेरिव कीर्तयः ॥ ४४ ॥ प्रेमक्षीरनिधेर्वेलाः, श्रीचन्दनविलेपनैः । लताः कृतयुगस्येवामुक्तमुक्ताफलव्रजैः ॥ ४५ ॥ नीरङ्गीच्छन्नवदनाः, सदनाद् वन्दनाकृते । निश्चलभक्तयश्चेलुः, श्वश्रूमनु जिनं प्रति ॥ ४६ ॥ (विशेषकम् )
अथ भद्रास्नुषा:-भद्रापुत्रवध्वः । 'प्रियस्यैवानुकारतः' प्रियस्य शालेः एव अनुकारत:-सादृश्यात् । 'क्षामा:' कृशाः। श्रीशाले: कीर्तयः इव श्वेते वाससी-वस्त्रे वसाना-परिदधाना ।। ४४ ॥ श्रीचन्दन-विलेपनैः प्रेमक्षीरनिधेः-स्नेहदुग्धाब्धेः । 'वेलाः' तरङ्ग-स्वरूपाः । 'आमुक्तमुक्ताफलव्रजैः' परिहितमौक्तिक-मालासमूहैः । 'कृतयुगस्य लताः इव' सत्ययुगस्य चतुर्थारकस्य लता:-वल्लय: इव ॥ ४५ ॥ 'नीरङ्गीछन्नवदनाः' नीरङ्गी-कौसुम्भवसनं तेन छन्नं वदनं-मुखं यासां ताः । 'निश्चलभक्तयः' निश्चला-स्थिरा भक्ति: यासां ताः । 'वन्दनाकृते' वन्दनार्थम् । 'सदनात्' गृहात् । 'श्वश्रूमनु' भद्राश्वश्रुः पश्चात् । जिनं प्रति चेलुः-चलन्ति स्म ॥ ४६ ॥
ततोऽभयकुमारेण, समं श्रेणिकभूपतिः । श्रीवीरस्य नमस्याय, तत्रागाद् भद्रया सह ॥ ४७ ॥
ततः अभयकुमारेण-मन्त्रिणा समं-सह श्रेणिक-भूपतिः श्रीवीरस्य नमस्यायै-वन्दनाय भद्रया सह तत्र-समवसरणे आगात्-आयातः ॥ ४७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१०॥