________________
श्री
शालिभद्र
महाकाव्यम्
TRERERE
भगवतः पार्श्वे गच्छन्ती भद्रा
इतो भद्रा निजावासे, हर्षोत्कर्षवशंवदा । किङ्करैः कारयामास सुतागमनमङ्गलान् ॥ ४० ॥ इतः निजावासे - स्वप्रासादे। 'हर्षोत्कर्षवशंवदा' प्रमोदप्रकर्षाधीना। भद्रा किङ्करैः सेवकैः। सुतागमनमङ्गलान् । 'कारयामास' कारयति स्म ।। ४० ।।
अजिरे रेजिरे तत्र, तोरणानां परम्पराः । अमन्दानन्दमाकन्दे, वेल्लन्तः पल्लवा इव ॥ ४१ ॥
तत्र अजिरे - अङ्गणे । 'अमन्दानन्दमाकन्दे' 'अमन्दानन्दः प्रकृष्टः प्रमोदः सः एव माकन्दः- चूतः तत्र । 'वेल्लन्तः ' चलन्त: । 'पल्लवा इव' किसलयानि इव । तोरणानां परम्पराः - श्रेणयः । 'रेजिरे' राजन्ते स्म ॥ ४१ ॥
कौसुम्भं शुशुभे वासः, सुतरामधितोरणम् । श्रीशालिभद्राभिमुख-भक्तिरागसमप्रभम् ॥ ४२ ॥
'अधितोरणं' तोरणे । 'कौसुम्भं वासः' काषायं वस्त्रम् । 'सुतरां शुशुभे' अत्यन्तं शोभते स्म । कथम्भूतं तत् ? 'श्रीशालिभद्राभिमुखभक्तिरागसमप्रभं' श्रीशालिभद्रस्य अभिमुखं सम्मुखं भक्त्याः रागेण समा रक्ता प्रभा यस्य तत् ॥ ४२ ॥
हसन्तीव मुहुर्मुक्तास्वस्तिकस्तबका मही । धन्यशालिपदस्पृष्टा, तद्वीक्षावञ्चिताः प्रियाः ॥ ४३ ॥
'धन्यशालिपदस्पृष्टा' धन्यशालिपदैः स्पृष्टा । 'मुक्तास्वस्तिकस्तबका' मौक्तिक स्वस्तिकानां स्तबका; यस्यां सा । 'मही' पृथ्वी । 'तद्वीक्षावञ्चिताः' शालिदर्शन वञ्चिता: । 'प्रियाः ' कान्ता: । 'मुहुः' अनिशं 'हसन्तीव ' उपहासं
328
सप्तमः
प्रक्रमः
॥ ३०९ ॥