________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आहारांश्चतुरो हित्वा, कषायानिव सर्वथा । आशंसायाः प्रयोगांश्च, चतुर्गतिगमानिव ॥ ३७ ॥ पादपोपगमं नामानशनं प्रतिपद्य तौ । निष्पकम्पौ बहिश्चान्तर्गिरिवत्तस्थतुः स्थिरौ ॥ ३८ ॥ (कलापकम्)
'शनैः शनैः' मन्दं मन्दम् । 'मुदितामिव' प्रमोदभावनामिव । 'अधित्यकां' गिरेः उपरितनभूमिम् । समारुह्य । 'सौस्थ्याय' हृदये सुस्थताकृते । 'माध्यस्थ्यमिव' उपेक्षाभावनामिव । 'प्रत्युपेक्ष्य' दृष्टिप्रतिलेखनं कृत्वा ॥ ३५ ॥ 'स्मृतपञ्चनमस्कारकृतपञ्चाङ्गिरक्षणौ' स्मृतैः पञ्चनमस्कारमन्त्रैः कृतं पञ्चाङ्गिरक्षणं याभ्यां तौ । पादौ हस्तौ शिरश्च इति पञ्चङ्गानां समाहारः पञ्चाङ्गि । 'कुटुम्बवत्' स्वजनवत् । समग्रं जन्तुजातं-प्राणिसमूहम् । क्षमयित्वा ।। ३६ ॥ कषायानिव चतुर:-चतुविधान् । 'आहारान्' अशन-पान-खादिम-स्वादिमलक्षणान् । 'सर्वथा' मनोवच:कायैः सर्वप्रकारेण । 'हित्वा' त्यक्त्वा । 'चतुर्गतिगमानिव' चतुर्गतिं गमयन्ति चतुर्गतिगमाः तानिव । 'आशंसाया: प्रयोगान्' इहलोक-परलोककामभोग-मरणाशंसारूपान् चतुरः, जीवितप्रयोगाऽऽशंसायाः अत्रैव समाविष्टत्वात् इह चत्वारः प्रयोगा: ज्ञेयाः । चः समुच्चये । हित्वा ॥ ३७ ॥ 'पादपोपगम नाम अनशनं' यत्र पादपवत्-वृक्षवत् स्थिरीभूयते तत् पादपोपगमं अनशनं कथ्यते । 'प्रतिपद्य' स्वीकृत्य । 'बहिः अन्तश्च' शरीरे मनसि च । 'निष्प्रकम्पौ' कम्परहितौ । गिरिवत् स्थिरौ तस्थतुः-तिष्ठतः स्म ॥ ३८॥
श्री गौतममुनीन्द्रोऽपि, मोहव्याधिचिकित्सकौ । तौ सत्याविव नासत्यौ, मुनिसिंहावुपावृहत् ॥ ३९ ॥
श्रीगौतममुनीन्द्रोऽपि । 'नासत्यौ इव' अश्वनीकुमारौ स्वर्गवैद्यौ इव । 'सत्यौ' तथ्यौ । 'मोहव्याधिचिकित्सकौ' मोहरोगप्रतिकारको 'तौ मुनिसिंहौ' यतिश्रेष्ठौ । 'उपावृहत्' उपवृहितवान्-प्रशंसितवानित्यर्थः ॥ ३९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३०८ ॥