________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
श्री वीरात् भगवत: तद् इदं अखिलं पूर्वभवजं पूर्वजन्मसम्बन्धि स्वरूपं निशम्य आकर्ण्य प्रबलतरवैराग्यकलितः प्रकृष्टतरनिर्वेदसहित: श्रीशालिः मुनिः । हे देह ! भोज्ये-भोजने प्रयोक्ष्ये-प्रयुक्तं करिष्यामि । इति दिवि आकाशे स्वर्ग 'बहिः' शरीराद् बहिः । चः समुच्चये । मनः प्रेक्ष्य दृष्ट्वा स्थापयित्वा इत्यर्थः । शरीरात् मनः पृथक्कृत्य इत्यर्थः। स धन्यः-सुकृती। 'इयं भोजनादिका । 'कायस्य' शरीरस्य 'स्थितिः' स्वभावः । 'अतः' इतिकृत्वा पारणम् अधात्अकरोत् । शालिभद्रस्य आत्मा उक्तवान् हे देह ! त्वां भोजने योक्ष्ये हे मनः त्वां च दिवि योक्ष्ये एवं कृत्वा पारणं कृतम् । मनसा विना भुक्तमित्यर्थः । शिखरिणीवृत्तमिदम् । तल्लक्षणं चेदम्-"रसै रूद्रैश्छिन्ना यमनसभला गः शिखरिणी" || २०८ ।।
विशालां श्रीशालेः कथमहमिह स्तौमि समतां, जनन्यायादुच्चैरिव निजजनन्याऽपि जनितैः । असंमानैरेतैरशनिनिशितैः पश्य पतितै, रपि क्षीराम्भोधि ज्वलति विगलत्येव हिमवान् ॥२०९॥(शिखरिणी)
श्री शालेः विशाला:-विपुलां समतां-मध्यस्थतां तुल्यतां वा । 'इह' भुवि । 'कथं' स्तौमि कथं शब्दैः स्तुतिविषयीकरोमि? "जनन्यायादुच्चैरिव लोकन्यायादपि उपरिस्थितैरिख । निजजनन्याऽपि स्वमात्रा भद्रया अपि । "जनितैः" उत्पादितैः । एतैः अशनिनिशितैः-वज्रतीक्ष्णैः । 'असंमानैः' असत्कारैः अपमानैः । समताभङ्गो नाभूदिति शेषः । 'पश्य' विलोकय । “पतितैः" दिवः पतितैः अशनिभिः । क्षीराम्भोधिरपि दुग्धजलधिरपि । 'ज्वलति' दहति । 'हिमवानपि' हिमपर्वतोऽपि । 'गलति एव' द्रवति एव अयं शालिस्तु न, तत्कथं तेन समुद्रेण गिरिणा वा समता (तुल्यता) स्यात् ? ॥ २०९ ॥ क्षमाभृतः प्रापुरिहापमाना-शनिप्रहारैर्निजपक्षहानिम्।असौतुसाम्यामृतसिन्धुशायी, मैनाकवन्नाकलयाञ्चकार॥२१०॥
(उपजाति)
8282828282828282828282828282828282
॥२९६॥