________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'पुण्य-बीजानि' सुकृतबीजानि । 'संसिच्य' दानजलेन संसिच्य । 'यथास्थानं' इष्टं स्वस्थानम् । 'सा' वृद्धा । 'इयाय' गता । 'तदेव' आदत्तं दधि एव । 'सर्वोपधाशुद्ध' सर्वपरीक्षाशुद्धम् । 'आदाय' गृहीत्वा । 'साधू' शालिधन्यौ। 'जग्मतुः' गतौ ॥ २०४ ॥
श्रीवीरं प्रणिपत्येर्या-पथिकीपूर्वकं ततः । शालिः प्राह मम स्वामिन् ! पारणं मातृतः कथम् ? ।। २०५ ॥ ।
'तत:' तत्पश्चात् । 'ईर्यापथिकीपूर्वकं' ईर्यापथिकीप्रतिक्रमणपूर्वकम् । श्रीवीरं प्रणम्य-वन्दित्वा । शालि: प्राह स्वामिन् ! मम पारणं मातृतः-भद्रातः कथम् ? || २०५ ॥
आदिदेशाथ सर्वज्ञः, शालिभद्र ! महामुने ! । प्राग्जन्मजननी वत्स ! तवेयं दधिदानकृत् ॥ २०६॥
अथ सर्वज्ञः-सर्ववेत्ता श्रीवीरः । 'आदिदेश' उवाच, 'महामुने' हे मुनिवर ! शालिभद्र ! । 'इयं' वृद्धा मथितहारिका धन्या । 'दधिदानकृत्' दनः प्रतिलम्भिका । 'प्राग्जन्मजननी' तव पूर्वजन्ममाता अस्ति ॥ २०६ ॥
पुरा नाम्नैव धन्याऽऽसीत, शालिग्रामनिवासिनी । सैव सत्याऽधुना जाता, भवतो दधिदानतः ॥ २०७॥
शालिग्रामनिवासिनी पुरा पूर्व नाम्ना एव 'धन्या' आसीत् । अधुना भवतः दधिदानतः सा एव सत्या यथार्था धन्या जाता ॥ २०७ ॥
स्वरूपं श्रीवीरात्तदिदमखिलं पूर्वभवजं, निशम्य श्री शालिः प्रबलतरवैराग्यकलितः । प्रयोक्ष्ये भोज्ये त्वां दिवि बहिरिति प्रेक्ष्य च मनः, स धन्यः कायस्य स्थितिरियमतः पारणमधात् ।। २०८ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२९५ ॥