________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828282 8282828282828282828282828282
'शालिं' मुनिम् । 'व्यजिज्ञपत्' विज्ञपयामास । 'नाथ' हे स्वामिन् ! । 'निर्धना' । अहं भवत: किं किं आतिथ्यंसत्कारम् । 'प्रथये' करोमि ? || २०० ॥
तथापि नाथ ! नाथे यत्, सत्पथे पान्थ ! ते शुभम् । शकुनं दधि तद्धीर ! गृहाणानुगृहाण माम् ॥ २०१॥
तथापि नाथ-हे प्रभो । 'सत्पथे' सन्मार्गे । 'पान्थ' हे प्रवासिन् । । 'ते' तव । 'शुभं' कल्याणम् । 'नाथे' याचे वाञ्छे । 'तत्' तस्मात् । 'धीर' हे धैर्यशालिन् ! । 'शकुनं दधि' मङ्गलरूपं दधि । 'गृहाण' आदस्त्व । मां अनुगृहाण मयि अनुग्रहं कुरु ॥ २०१ ॥
इत्युदीर्य प्रदायासौ, दधिभिक्षां मुमुक्षवे । धन्यंमन्या मुदाऽनंसी-च्चञ्चद्रोरामाञ्चकञ्चुका ॥ २०२ ॥
इति उदीर्य-कथयित्वा । 'मुमुक्षवे' मुनये । दधिभिक्षा प्रदाय-प्रकृष्टभावेन दत्वा । 'धन्यंमन्या' आत्मानं धन्यं मन्यते इत्येवंशीला । चञ्चद्रोमाञ्चकञ्चका उच्छलत्पुलककञ्चका । 'असौ' मथितहारिका धन्या । 'मुदा' आनन्देन । 'अनंसीत्' नमति स्म ॥ २०२ ॥
दुग्धमेघायिता पूर्व, महामेघायिताऽश्रुभिः । दधिमेघायिता दानात्, सुधामेघायिता गिरा ॥ २०३ ॥
'पूर्व' दुग्धमेघायिता प्रस्नवेन दुग्धमेघतुल्या । 'अश्रुभिः' नयनजलैः । 'महामेघायिता' महामेघसमा । 'दानात्' दधिदानात् । दधिमेघायिता दधिमेघसमा । 'गिरा' मधुरवचनेन । 'सुधामेघायिता' अमृतमेघसमा । असौ मथितहारिका बभूव ॥ २०३ ॥
संसिच्य पुण्यबीजानि, यथास्थानमियाय सा । साधू सर्वोपधाशुद्धं, तदेवादाय जग्मतुः ॥ २०४ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२९४॥