________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
श्रेणिः सैव प्रणालीमार्गः कुल्यामार्गः तेन लालितं नीतम् । 'हर्षाम्बु' आनन्दाश्रुजलम् । क्षेत्रभूमिका शरीरम् । पक्षेक्षेत्रभूमिम् । 'अपूरयत्' पूरितवत् ॥ १९६ ॥
सर्वाभिसार: स्नेहस्य, स्तनयोः क्षीरकन्दयोः । प्रससार पयः पूरस्ततस्तस्याश्चिरादपि ॥ १९७ ॥
ततः तस्याः-वृद्धायाः । चिरादपि वृद्धभावेऽपि । 'क्षीरकन्दयोः' दुग्धमूलयोः' । 'स्तनयोः' वक्षोजयोः । 'स्नेहस्य' | प्रेम्णः । 'सर्वाभिसारः' सर्वतः अभितः सारभूतं सर्वस्वम् । ‘पयःपूरः' दुग्धपूरः । प्रससार प्रसरति स्म ॥ १९७ ॥
भूमिष्ठे सकले देवे, दुग्धं क्षरति गौर्यथा । अज्ञातेऽपि तथा पुत्रे, प्रस्नुता साऽप्यसंस्तुता ॥ १९८ ॥
'सकले' सप्रभावे । देवे भूमिष्ठे भूमिस्थिते । यथा गौः धेनुः । दुग्धं पयः । क्षरति स्रवति । तथा असंस्तुताऽपिअपरिचिताऽपि । 'सा' वृद्धा । 'अज्ञातेऽपि' अविदितेऽपि । 'पुत्रे' शालिमुनौ । 'प्रस्नुता' दुग्धं प्रस्तुतवती ॥ १९८ ॥
तत्र व्यतिकरे धर्म-सर्गादौ मुनिदर्शनात् । दुग्धं ववर्ष सोत्कर्ष, क्षीरकादम्बिनीव सा ॥ १९९ ॥
'मुनिदर्शनात्' शालिमुनिविलोकनात् । तत्र व्यतिकरे वृत्तान्ते । 'धर्मसर्गादौ' धर्मसृष्टेः आदौ, धर्मस्थापनात् पूर्वम् । 'क्षीरकादम्बिनीव' दुग्धमेघमाला इव । 'सा' मथितहारिका । 'सोत्कर्ष' उत्कर्षसहितम् । दुग्धं पयः । ‘ववर्ष' वृष्टवती। यथा युगादौ मेघमाला वर्षति तथेयमपि ॥ १९९ ॥
व्यजिज्ञपच्च सा दाना-शया शालिं शुभाशया । भवतः किं किमातिथ्यं, प्रशये नाथ! निर्धना ॥ २००॥ 'दानाशया' दाने-दानकरणे आशय: इच्छा यस्या: सा । 'शुभाशया' कुशलाशया । चः समुच्चये । 'सा' वृद्धा।
ARRARAUAYA8A82828282828282888
॥ २९३॥