________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'रवि' सर्यम् । 'प्राप्य' लब्ध्वा । 'प्राचीव' पर्वा दिगिव । 'विकस्वरमुखाम्बुजा' प्रफुल्लवदनपद्या । 'अमन्दानन्दपूर्णाङ्गी' अनल्पप्रमोदेन पूर्ण-भृतं अङ्गं यस्याः सा । 'चेतसि' मनसि । 'चिन्तयामास' विचारयामास ॥ १९२ ।।
सुधान्धुः किमयं बन्धुः, सुन्दरः सोदरः किमु ? । आशाव्यासनिवासाय, दिग्गजः किं ममाङ्गजः? ॥ १९३ ॥
'अयं' शालिमुनिः । किं सुधान्धुः-अमृतकूपः । 'बन्धुः' स्वज्ञातीयो बान्धव: ? किमु सुन्दरः सोदरः-भ्राता ? कि 'आशाव्यासनिवासाय' मनोरथविस्तारनिवासाय । पक्षे-दिग्व्यासनिवासाय । मम दिग्गजः-दिग्गजसमः । 'अङ्गजः' पुत्रः ? || १९३||
किं वाऽहं राज्यमापन्ना, किं वाऽहं स्वर्गमागता । किं वा प्रमोदमेदस्वि-दुग्धाब्धिजलमानुषी ॥ १९४ ॥
किंवा अहं राज्यं आपन्ना प्रप्त ? किंवा अहं स्वर्ग-देवलोकं आगता-आयाता ? किंवा प्रमोदमेदस्विदुग्धाब्धिजलमानुषी हर्षमेदुरक्षीरसागरे जलसुन्दरीसमा अहं जाता ? ॥ १९४ ।।
आत्मानं नाभिजानामि, नाभिजानामि कोऽप्ययम् । किं त्वेवमभिजानामि, पर्व सर्वोत्तमं मम ॥ १९५ ॥
'आत्मानं' स्वम् । 'नाभिजानामि' नोपलक्षयामि कोपि अयमिति । किन्तु एवं अभिजानामि यत् अयं शालिमुनिः मम सर्वोत्तमपर्व-पर्वदिनम् ॥ १९५ ॥
एवमस्या विकल्पालीप्रणालीमार्गलालितम् । हर्षाम्बुनेत्र-मार्गेणा-पूरयत् क्षेत्रभूमिकाम् ॥ १९६ ॥ एवं अस्याः-मथितहारिकायाः । नेत्रमार्गेण नयनाध्वना । विकल्पालीप्रणालीमार्गलालितं विकल्पा: एव आली
satasa8RSR88RSONASRSASASASRSANASNA
॥२९२॥