________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
गोरसभाजनश्रेणिम्। 'दधिः' धारयित्री, दधातीति दधिः । काचित् मथितहारिका-दध्यादिविक्रेत्री स्त्री । 'महीआरी' इति भाषायाम् । 'आयासीत्' आगच्छति स्म ॥ १८८ ॥
सा विद्यैव सदाभ्यासा, वृद्धभावेऽपि सस्फुरा । सतां मतिरिवात्यन्तं परिणामसुनिर्मला ॥ १८९ ॥ प्राज्यसौराज्यसन्नीतिरिवादण्डकरग्रहा । अहीनकरणस्थैर्यसिद्धव्यापारगौरवा ॥ १९० ॥ कात्यायनी निभाल्याऽथ सा युक्तं ब्रह्मचारिणम् । दधती विस्मिते नेत्र-कुमुदे मुमुदेतराम् ॥ १९१ ॥
'सा' मथितहारिका स्त्री। 'सदाभ्यासा विद्या इव' सदा अभ्यास: यस्यां सा विद्या तद्वत् । वृद्धभावेऽपि सस्फुरा वार्धक्येऽपि स्फूर्तिमती । 'सतां मतिः इव' सज्जनानां बुद्धिः इव । अत्यन्तं परिणामसुनिर्मला अत्यन्तं भृशं परिणामे फले सुनिर्मला अत्यमला ॥ १८९ ॥ 'प्राज्यसौराज्यसन्नीति: इव' विशालसुराज्यसुनीति: इव । 'अहीनकरण स्थैर्यसिद्धव्यापारगौरवा' सम्पूर्णकार्य(साधन)स्थैर्येण सिद्धं व्यापारस्य वाणिज्यस्य गौरवं यस्याः सा । पक्षेअहीनकरणस्थैर्येण-सम्पूर्णेन्द्रियस्थिरतया सिद्धं व्यापारस्य गौरवं यस्याः सा । 'अदण्डकरग्रहा' यस्मिन् करदण्डाद्या न गृह्यन्ते सा वृद्धापक्षे-करे दण्डस्य अग्रहणात् ॥ १९० ॥ 'कात्यायनी' अर्धवृद्धा मथितहारिका । पक्षे-गौरी । 'मृडानीकात्यायन्यौ' इति हैम्याम् । 'युक्तं' धन्यमुनिना युक्तं शालिभद्रमनिम् । पक्षे-गणपति-सहितं (कार्तिकेयम) । 'ब्रह्मचारिणं' ब्रह्मशालिनं मुनिम् । पक्षे-कार्तिकेयम् । पाण्मातुरो ब्रह्मचारी इति हैम्याम् । अथ सा । निभाल्य विलोक्य । 'विस्मिते नेत्रकुमुदे' प्रफुल्ले नयनकैरवे । 'दधती' धारयन्ती । 'मुमुदेतरां' मोदतेतरां स्म ॥ १९१ ।।
सा प्राचीव रविं प्राप्य, विकस्वरमुखाम्बुजा । अमन्दानन्दपूर्णाङ्गी, चिन्तयामास चेतसि ॥ १९२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २९१ ॥