________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'अपमानाशनिप्रहारः' अपमानवज्राघातैः । 'क्षमाभृतः' अन्ये मुनयः पर्वताश्च "निजपक्षहानि' मुनिपक्षे समतापक्षनाशम्। पर्वतपक्षे-निजपक्ष('पांख' इति भाषायाम्)नाशम् 'तु' कितु । 'असौ' शालिभद्रः । 'साम्यामृतसिन्धुशायी' समतासुधाम्भोनिधिशायी । 'मैनाकवत्' मैनाकनामा हिमालयपुत्रः पर्वतः तद्वत् । न
आकलयाञ्चकार निजपक्षहानि न प्राप्नोति स्म । नाकपर्वतः सागरे निमग्नोऽस्ति तत: स अशनिप्रहारविषयो न भवति । तद्वत् शालिमुनेरपि समतामृतसागरनिमग्नत्वात् समताभङ्गाभावः इति भावः ॥ २१० ॥
पूर्वं पायसशम्बलेन तनयं, निन्ये कुलं तादृशं, पश्चाद् गोरसशम्बलेन किल या, सर्वार्थसिद्धिश्रियम्। धन्या सैव जनन्यतः परतरां भद्रामभद्रामथो, नो मन्येऽन्तरवासकेऽपि वसतो मातेति यद्गीः सताम् ॥ २११ ॥
'पूर्व' सङ्गमभवे । 'पायसशम्बलेन' परमान्नपाथेयेन । 'यया' धन्यया । 'तादृशं कुलं' गोभद्रस्य ऋद्धिमत् कुलम् । 'निन्ये' सङ्गमं नीतवती । 'पश्चात' शालिभद्रभवे । 'या' धन्या मथितहारिका किल: निश्चयार्थः । 'गोरस-शम्बलेन' दधिपाथेयेन । 'सर्वार्थसिद्धिश्रियं' पञ्चमानुत्तर-विमानलक्ष्मी नेष्यति । 'धन्या' पुण्यवती मथितहारिका धन्या । सा एव जननी-माता । अथो अतः परतरां अन्याम् । 'अभद्रां' अधन्यां अमङ्गलाम् । 'भद्रां' मातरम् । नो मन्ये । 'यत्' यतः । 'अवासकेऽपि' प्रासादादिकं अदत्वा अवासकेऽपि मातृजने । 'अन्तर' चेतसि । 'वसतः' निवसतः पुत्रजनस्य । 'माता' जननी सत्या । इति सतां-सज्जनाम् । 'गी:' वचनम् । अयं भाव:-धन्यया यद्यपि शालिभद्राय प्रासादादिकं न दत्तम् । तथापि यदा सा शालिमुनिदृष्टि-पथे समायाता तदा सा शालिमनसि प्रविष्टैव । तस्याः दध्न: शालिमनिना आदत्तत्वात् ॥ २११ ॥
8282828282828282828282828282828282
॥ २९७॥