________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तन्नाममन्त्रमेव' शालिभद्रनाममन्त्रमेव । 'जञ्जपूकाभिरपि' जपनशीलाभिरपि । 'आभिः' शालिप्रियाभिः । 'असत्त्वाभिः' सत्त्वहीनाभिः । 'देवीवर: इव' देवीवरदानमिव । आगतः वर:-पतिः शालिमुनिवरः । 'न प्रापि' न प्राप्तः । गृहागतः शालिमुनिः न दृष्टः इत्यर्थः ॥ १७८ ॥
तेन कायस्तथा चक्रे, क्षामः प्रतिपदिन्दुवत् । यथा नादर्शि कान्ताभिरुषारूपाभिरप्यहो ॥ १७९ ॥
'तेन' शालिमुनिना । 'प्रतिपदिन्दुवत्' प्रतिपच्चन्द्रवत् । 'कायः' शरीरम् । तथा क्षाम:-कृशः । 'चक्रे' कृतः । यथा 'उषारूपाभिरपि' कामपुत्रः अनिरुद्ध तत्पत्नी उषा तद्वद् रूपं यासां ताभिरपि । चन्द्रपक्षे-कामधेनुभिरपि । यतः उक्तम्प्रतिपच्चन्द्रं सुरभिर्नकुलो नकुलीं पयश्च कलहंसः । कृष्णकवल्ली पक्षी, सूक्ष्मं धर्म सुधीर्वेत्ति ॥" (सुरभि:-धनुः) निशागोकामपुत्रवध्वर्थः उषाशब्दः । अहो आश्चर्ये । 'कान्ताभि:' शालिपत्नीभिः । 'न अदर्शि' न दृश्यते स्म । उषा (सुरभिः) प्रतिपच्चन्द्रं पश्यति किन्तु अत्र उषातुल्यभिरपि शालिपत्नीभिः कृशः शालिमुनिः न दृष्टः इति आश्चर्यम् ॥ १७९ ॥
अवस्थाय प्रतस्थाते, तत्र सौधक्षणे क्षणम् । साधू अगाधमाध्यस्थ्यसुधाम्भोनिधिसिन्धुरौ ॥ १८० ॥
तत्र सौधक्षणे-प्रासादोत्सवे । 'क्षणं' मनाक् । 'अवस्थाय' अवस्थानं कृत्वा । 'अगाधमाध्यस्थ्यसुधाम्भोनिधिसिन्धुरौ' अगाध-माध्यस्थ्यमेव सुधाम्भोनिधिः-अमृतसमुद्रः तत्र सिन्धुरौ-कुञ्जरौ । 'साधू' शालिधन्यौ । 'प्रतस्थाते' प्रस्थानं कुर्वतः स्म ॥ १८० ॥
स्वाम्यादेशात्तमावासं, विशतोरथ निर्यतोः । राज्याभिषेककाले श्रीरामलक्ष्मणयोरिव ॥ १८१ ।। समचित्ततया हन्त ! क्षमापुत्र्या सशोभयोः । प्रकार: कोऽपि नाकारविकारस्य तयोरभूत् ॥ १८२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २८८ ॥