________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वयं सम्प्रति पद्मिन्यः, सद्मदुःखजलाशये । पत्युः सूरस्य सत्तैव, न संवासः पुनर्यतः ॥ १७५ ॥
'सम्प्रति' अधुना । वयं सद्मदुःखजलाशये गृहदुःखसरसि । 'पद्मिन्यः' पद्मिनीस्त्रियः । सूर्यपक्षे-कमलिन्य: स्मः। 'यतः' यस्मात् । 'सूरस्य' धर्मवीरस्य । पक्षे-सूर्यस्य । 'पत्युः' पतिदेवस्य । 'सत्तैव' अस्तित्वमेव । न पुनः संवास:सहवासः । यथा सरसि स्थिता पद्मिनी केवलं सूर्यप्रकाशमेव प्राप्नोति न संवासम् । तथा वयमपि सम्प्रति पतिसत्तामेव प्राप्नुमः, न सहवासमिति भावः ॥ १७५ ॥
इति हर्षाश्रुसम्पृक्तविरहानलजैरिव । ध्रुवं धूमैविधुरिताः, कान्ता ददृशिरे न तम् ॥ १७६ ॥
इति 'हर्षाश्रुसम्पृक्तविरहानलजैरिव' हर्षाश्रुसम्पृक्तैः आनन्दाश्रुसंयुक्तैः विरहानलजैः-वियोगाग्निजातैः । अल्पजलसंयोगात् वर्धते एव धूमः अग्नौ । 'धूमैः' धूम्याभिः । 'विधुरिताः' व्याकुलाः । 'कान्ताः' प्रेयस्यः । 'ध्रुवं' निश्चितम् । 'तं' शालिमुनिम् । 'न ददृशिरे' न पश्यन्ति स्म ॥ १७६ ॥
तपःश्रिया वल्लभया, पूर्वकान्ताभयादिव । मन्ये प्रचण्डयोगिन्या, निन्ये स किमदृश्यताम् ॥ १७७ ॥
'मन्ये' अहं कवि: मन्ये । 'प्रचण्डयोगिन्या' अत्युग्ररोषणशीलया योगिन्या । 'तपः श्रिया' तपश्चर्यालक्ष्म्या । 'वल्लभया' प्रियया । 'पूर्वकान्ताभयादिव' मा पूर्वप्रियासु आसक्तः स्यादिति भयादिव । 'सः' शालिमुनिः । किमदृश्यतां निन्ये? मा पूर्वप्रियासु आसक्तः स्यात् शालिमुनिः इति ईjया इव योगिनीतुल्यया तपश्चर्यया स अदृश्यतां नीतः इति कविकल्पना ।। १७७ ।।
तन्नाममन्त्रमेवाभिर्जञ्जपूकाभिरप्यहो । न वरः प्राप्यसत्त्वाभिर्देवीवर इवागतः ॥ १७८ ॥
8282828282828282828282828282828282
॥ २८७॥