________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
गमने न काऽपि गरिमा स्त्रीणाम् । अत: एकग्रामेऽपि प्रवास: मरणादपि दुःसहः प्रतिभाति । अस्माकम् । 'सः' विरहः । 'प्रियालोकेऽपि' प्रियस्य-प्रेयस: आलोकेऽपि दर्शनेऽपि 'साम्प्रतं' इदानीम् । 'न प्रयास्यति' न गमिष्यति ॥ १७१ ।।
यद् वयं निजनाथस्य, स्वपाणिकमलार्चने । देवस्येवापवित्राङ्गा, दूरिता: पापपूरिताः ॥ १७२ ॥
'यतः' यस्मात् । 'देवस्य इव' जिनस्य इव । 'अपवित्राङ्गाः' ऋतुमत्य: स्त्रियः । 'स्वपाणिकमलार्चने' निजहस्ताम्बुजाभ्यां अर्चने-पूजने । 'दूरिता' दूरे गताः । तथा वयं पापपूरिता: दुरितपूर्णाः । 'निजनाथस्य' स्वस्वामिनः शालेः । स्वपाणिकमलार्चने दूरिताः वयं न स्वामिस्पर्शसौभाग्यं लप्स्यामहे इति भावः ॥ १७२ ।।
हृदि प्रतिनिधिः स्नात्रप्रतिमेव निजेशितुः । श्रीमूलनायकस्यास्य, स्नाप्या हर्षजलैर्यदि ॥ १७३ ॥
अस्य श्रीमूलनायकस्य-मन्दिरमूलनायकतुल्यस्य शालिमुनेः । 'स्नात्रप्रतिमेव' स्नात्रबिम्बमिव । 'निजेशितुः' स्वस्वामिनः । 'हृदि हृदये । 'प्रतिनिधिः' प्रतिमा । 'यदि' चेत् । 'हर्षजलैः' प्रमोदपानीयैः । 'स्नाप्या' स्नपनीया । इदमपि महत् सौभाग्यमिति शेषः । यथा मूलनायकप्रतिमायां गर्भगृहस्थितायां पूजकैः स्नात्रबिम्बं बहिः निष्कास्य पूज्यते तथा वयं हदि शालिभद्रप्रतिनिधि स्नापयिष्यामः इति भावः ।। १७३ ।।
समं चेत् प्राव्रजिष्याम, प्राणेशेन तदा मुदा । नाऽभविष्यत्तदा लोकापवादैः सुखखण्डना ॥ १७४ ॥
'तदा' स्वामिदीक्षासमये । 'मुदा' आनन्देन । 'प्राणेशेन' शालिना स्वामिना । 'सम' सह । 'चेत्' यदि । 'तदामुना' इत्यपि पाठः । 'प्रावजिष्याम' प्रव्रज्यां अग्रहीष्याम । 'तदा' तहि । 'लोकापवादैः' अहो ! सतीभिरपि आभिः पतिः न अनुसृतः इत्येवंविध: लोकापवाद:-लोकनिन्दा तैः । 'सुखखण्डना' सुखदलनम् । न अभविष्यत् ॥ १७४ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २८६॥