________________
षष्ठः
श्री शालिभद्र महाकाव्यम्
प्रक्रमः
8282828282828282828282828282828282
'निरुद्धनयना इव' आच्छादितनेत्रा इव । 'अम्बा' भद्रा माता 'सुतं मुनि' गृहागतं शालिमुनिम् । 'न आलुलोके' न दृष्टवती ॥ १६७ ॥
यथा निधानं निष्पुण्या, दायं छूतोद्यता निजम् । हन्त भ्रान्ता न पश्यन्ति, दुर्दैवहताशयाः ॥ १६८॥ ध्यानधाराधिरोहेऽपि, भद्रा भद्रविनाकृता । तथा सम्भावयामास, गृहाङ्गणगतौ न तौ ॥ १६९ ॥
यथा । 'निष्पुण्याः ' निर्भाग्या: । 'निधानं' धननिधिम् । न पश्यन्ति । यदुक्तम्-"पदे पदे निधानानि, योजने रसकूपिका। भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा ॥" यथा । 'दुर्दैवहताशयाः' दुर्भाग्यनष्टमनोरथा: । 'भ्रान्ताः' भ्रान्ति प्राप्ताः । 'छूतोद्यताः' द्यूते उद्यता:-तत्पराः । निजं दायम् । 'दाव' इति भाषायाम् । न पश्यन्ति । हन्तः खेदे ॥ १६८ ।। तथा । ध्यानधाराधिरोहेऽपि' शालिध्यानधारायाः अधिरोहे आरोहे अपि । 'भद्रविनाकृता' भद्रेण मङ्गलेन विनाकृति रहिता । भद्रा। 'गृहाङ्गणगतौ' गृहाङ्गणं गतौ-प्राप्तौ । तौ शालिधन्यौ मुनी । 'न सम्भावयामास' न दृष्टवती ॥ १६९ ॥
सम्भूय ललना: शालेर्जगदु जगदुत्तमाः । विरहः सुसहः प्राणप्रिये प्रायः प्रवासजः ॥ १७० ॥ एकग्रामप्रवासस्तु, मरणादपि दुःसहः । प्रियालोकेऽपि सोऽस्माकं, साम्प्रतं न प्रयास्यति ॥ १७१ ॥ |
शालेः जगदुत्तमा:-विश्वश्रेष्ठः । 'ललनाः' प्रियाः । 'सम्भूय' सम्मील्य । 'जगदुः' वदन्ति स्म । 'प्रायः' बहुधा। 'प्राणप्रिये' पत्यौ गृहस्थे सति । 'प्रवासजः' नामान्तरप्रवासेन जात: । 'विरहः' वियोग: । 'सुसहः' सुखेन सह्यो भवति ॥ १७० ॥ 'त' परन्तु । 'एकग्रामप्रवासः' एकस्मिन्नेव ग्रामे राजगृहे प्रवासः । 'मरणादपि दु:सहः' स्त्रीणां हृदये प्रायेण इयं इच्छा वर्तते यत् पतिः सम्मुखं आगत्य मां सङ्गच्छत्, किन्तु अत्र स्वयमेव तत्र गन्तव्यम् । तत्र स्वयं
828282828282828282828282828282828282
॥ २८५ ॥