________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'राज्याभिषेककाले' अयोध्याराज्याभिषेकसमये । 'स्वाम्यादेशात्' श्रीवीरविभोरादेशात् । रामपक्षे-दशरथादेशात् । 'तमावासं' भद्राप्रासादम् । 'विशतोः' प्रविशतोः पक्षे-राज्याभिषेकाय प्रविशतोः । अथ निर्यतो:-निर्गच्छतो:-पक्षे-वनाय निर्गच्छतोः ॥ १८१ ॥ हन्तः खेदे । 'समचित्ततया' प्रासादप्रवेशे ततः निर्गमे वा चेतसः साम्यभावात् । पक्षे-राज्याभिषेके वनवासे वा साम्यभावात् । 'क्षमापुत्र्याः' क्षमायाः पुत्री समता तया । पक्षे पृथ्वीसुतया सीतया । 'सशोभयोः' समतया शोभितयोः । पक्षे सीतया शोभितयोः । 'तयोः' शालिधन्यमुन्योः । पक्षे-रामलक्ष्मणयोः । 'आकारविकारस्य' आकृतेः विकारस्य । कोऽपि प्रकार:-विशेषः । 'न अभूत्' न जातः । यदुक्तम् आहूतस्याभिषेकाय, विसृष्टस्य वनाय च । न मया लक्षितस्तस्य, स्वल्पोऽप्याकारविभ्रमः ॥ १८२ ।।
क्व सा नृपतिमानेऽपि दुःखदा सुकुमारता । क्व मातुरपमानेऽपि, सुखदा तु कठोरता ॥ १८३ ॥
'नृपतिमानेऽपि' श्रेणिकभूपसत्कारे अङ्कोपवेशनरूपेऽपि । क्व सा दुःखदा-कष्टदा । 'सुकुमारता' सुकोमलता? क्व मातुः-भद्रायाः । अपमानेऽपि' गृहे सत्काराऽभावात् । 'सुखदा' आनन्ददायिनी । तुश्चकारार्थः । कठोरता' कठिनता? ॥ १८३ ॥
मा भूवन् सम्प्रति रागाङ्करा नीरसयोस्तयोः । चित्रं नादीपि कोपाग्नि-र्यत्तदा शुष्ककाष्ठयोः ॥ १८४ ॥
'नीरसयोः' नीरागयोः । काष्ठपक्षे-शुष्कयोः । 'तयोः' मुन्योः । 'साम्प्रतं' अधुना अपमानेऽपि । 'रागाङ्कराः' स्नेहप्ररोहाः । 'मा भूवन्' मा भवन्तु । किन्तु तदा । 'शुष्ककाष्ठयोः' शुष्कन्धनसमयोः तयोः । 'कोपाग्निः' रोषानलः । 'न अदीपि' न अज्वालि । इति चित्रं-आश्चर्यम् । शुष्ककाष्ठे अङ्कराः न प्ररोहन्ति, किन्तु घर्षणे जाते अग्निः आविर्भवत्येव, किन्तु अत्र शालिधन्यचेतसि अपमानेऽपि कोपाग्निरपि न जातः इति चित्रम् ॥ १८४ ॥
8282828282828282828282828282828282
॥ २८९॥