________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
'वत्साः' हे पुत्र्यः । 'वधूटिकाः' हे पुत्रवध्वः । 'प्राणवल्लभे' प्राणप्रिये शालिभद्रे । 'दुर्लभे' दुष्प्रापे सति । युष्माभिः इयं द्वादशाब्दी-द्वादशानां अब्दानां वर्षाणां समाहारः । 'कल्पकोटिसमा' युगकोटितुल्या । “विकल्पिता' चिन्तिता ॥ १५५ ।।
युष्मद्ध्यानैः स्फुरद्धातैः, किं मनोरथिकैरिव । महापोत इवानिन्ये, दूरदेशान्तरात् प्रियः ॥ १५६ ॥
'मनोरथिकैरिव' मनोरथानां आशानां अयं तैरिव, मनःसारथिभिरिव वा । 'स्फुरद्वातैः' उल्लसद्वायुसमैः । 'युष्मद्ध्यानैः' युष्माकं ध्यानैः शालिविषयकैः । किं दूरदेशान्तरात्-दूरस्थितान्यदेशात् । 'महापोतः इव' महाप्रवहणमिव । 'प्रियः' स्वामी। 'आनिन्ये' आनीत: ? ॥ १५६ ॥
तदद्य सोद्यमा यूयं, पुरा परिचितं चिरात् । श्रृङ्गारमनुगृहीत, विनीतमिव सेवकम् ॥ १५७ ॥
'तत्' तस्मात् । अद्य सोद्यमा:-सप्रयत्नाः । यूयं पुरा-पूर्वम् । चिरात्-चिरकालम् । 'परिचितं' सदा परिहितत्वात् परिचितम् । 'श्रृङ्गार' पट्टदुकूलादि मण्डनम् । 'विनीतं' विनम्रम् । 'सेवकमिव' दासमिव । 'अनुगृह्णीत' परिधत्त इत्यर्थः ॥ १५७ ॥
द्रुतं सवनपीठं तद्, यात स्नातानुलिम्पत । अलङ्कारानलं कारागृहादद्य विमुञ्चत ॥ १५८ ॥
'तत्' तस्मात् । 'द्रुतं' क्षिप्रम् । 'सवनपीठं' स्नानपीठम् । 'यात' गच्छत । 'स्नात' स्नानं कुरुत । 'अनुलिम्पत' पश्चाद् विलेपनं कुरुत । अद्य कारागृहात्-गुप्तिगृहात् । अलङ्कारान्' भूषणानि । 'अलं' अत्यर्थम् । 'विमुञ्चत' निष्कासयत ।। १५८ ॥
इति श्वश्रूनिदेशात्ता, उच्चरोमाञ्चकञ्चुकाः । देहे गेहेऽप्यसंमान्त्यस्तदा तत्वरिरेतराम् ॥ १५९ ॥ इति श्वश्रूनिदेशात्-भद्राऽऽदेशात् । 'उच्चरोमाञ्चकञ्चकाः' उच्चा: रोमाञ्चाः एव कञ्चका यासां ताः । 'देहे' शरीरे ।
828282828282828AURUARAURURURURU
॥ २८२॥