________________
श्री
शालिभद्र महाकाव्यम्
'गेहेऽपि गृहेऽपि । 'असंमान्त्यः' हर्षोत्कर्षत्वाद् अमान्त्यः । ताः' पुत्रवध्वः । तदा' तत्क्षणे । 'तत्वरिरेतरां' शीघ्रतां चक्रुः ॥ १५९ ॥
तदाऽऽदिष्टः सुसन्तुष्टः, परिवारोऽप्यवारितः । अन्योन्यं पूर्णपात्रार्थी, हर्षसांराविणं व्यधात् ॥ १६० ॥
तदा । 'आदिष्टः' भद्रया आदेशं प्राप्तः । तयाऽऽदिष्टः' इत्यपि पाठः । 'सुसन्तुष्टः' सम्यक् तृप्त: । 'अवारितः ' केनाऽपि अनिरुद्धः । 'परिवार:' दासदास्यादिपरिजन: । 'पूर्णपात्रार्थी' पूर्णपात्रस्य अर्थी इच्छुक: । 'उत्सवेषु सुहृद्भिर्यद्, बलादाकृष्य गृह्यते । वस्त्रपात्रादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥” इति हैम्याम् । 'अन्योन्यं' मिथः । 'हर्षसांराविणं' हर्षेण सम्मदेन सांराविणं शब्दमयम् । अभिव्याप्तौ |५|३|१०|| इत्यनेन जिनि नित्यं ञजिनोऽण् |७|३|५८ || इत्यनेन नित्यमण् । 'व्यधात्' करोति स्म ॥ १६० ॥
प्रमोदसागरे तत्र, कल्लोला इव किङ्कराः । एहिरेयाहिराञ्चक्रुर्नृत्यन्तोऽत्यन्तचञ्चलाः ॥ १६९ ॥
तत्र प्रमोद सागरे - आनन्दाब्धौ । 'कलोल्ला इव' तरङ्गाः इव । 'अत्यन्तचञ्चलाः' अतिचपलाः । 'नृत्यन्तः ' धावन्तः । 'किङ्कराः ' सेवका: । 'एहिरेयाहिराञ्चक्रुः' एहि रे याहि रे इत्येवंविधान् शब्दान् कुर्वन्ति स्म ॥ १६१ ॥
सत्वरं तत्र यास्यामि, दास्ये तत्र प्रदक्षिणाम् । साधुमण्डलसारस्य, ह्रीङ्कारस्येव वेष्टनाम् ॥ १६२ ॥ वन्दनेन मुनेस्तस्य, चन्दनेनेव निर्भरम् । सन्तापमपनेष्यामि, कुटुम्बायोगरोगजम् ॥ १६३ ॥ कपोलपालिलालित्ये, नेत्रराजीवराजिते । वेल्लभ्रूवल्लिके भालस्थले तन्मुखपल्वले ॥ १६४ ॥
THERE
षष्ठः
प्रक्रमः
॥ २८३ ॥