________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'रूपश्रिया' रूपलक्ष्म्या । 'जयन्तीव' इन्द्रपुत्रीव । 'निजान्वये' स्वकुले । 'वैजयन्ती' पताका । 'शीलशैलेशचूलिका' ब्रह्मचर्यमेरुशिखारूपा । सा मे-मम सुता-पुत्री सुभद्रा समायाता-समागता ॥ १५१ ॥
धन्यः सुतापतिर्धन्यः, स नमस्यो महाव्रती । रेजेऽष्टाभिः प्रियाभिर्यो, मूर्ताभिरिव मूर्तिभिः ॥ १५२ ॥
'सुतापतिः' जामाता । 'स धन्यः' धन्याभिधः मुनिः । 'धन्यः' पण्यवान् । स महाव्रती-महामनि: पक्षे-शकरः। 'महाव्रती वह्निहिरण्यरेताः' इति हैम्याम् । 'नमस्यः' नमनीय: । यः मूर्ताभिरिव अष्टाभिः मूर्तिभिः अष्टमूर्तितुल्याभिः । 'प्रियाभिः' प्रेयसीभिः । 'रेजे' राजते स्म । शङ्करपक्षे-क्षिति-जल-पवन-हुताशन-यजमानाऽऽकाश-चन्द्र-सूर्याभिधाभिः मूर्तिभिः अष्टमूर्तिः शङ्करः यथा रेजे । 'मृत्युञ्जय: पञ्चमुखोऽष्टमूर्तिः' इति हैम्यां शिवनामसु || १५२ ॥
सङ्गतं सङ्गतं निस्सङ्गतं मेऽद्य कुटम्बकम् । सुप्रभातं प्रभातं तत्, स्ववशे श्वोवसीयसम् ॥ १५३ ॥
अद्य मे-मम निःसङ्गतं-निरीहं कुटुम्बकं-दीक्षित पुत्र-पुत्री-जामातृरूप: परिवारः । 'सङ्गतं' मीलितम् । 'सङ्गतं' तत् युक्तम् । 'प्रभातं' प्रत्युषम् । 'सुप्रभातं' सुष्टु प्रकाशितम् । 'स्ववशे श्वोवसीयसं' स्वाधीनं च जातं कल्याणम् ॥ १५३ ॥
विभाव्यैवमसम्भाव्यप्रमोदभरभास्वरा । भद्राऽवादीद्विनिद्रास्या, जननीव जनीजनम् ॥ १५४ ॥
'एवं' उक्तप्रकारेण । 'विभाव्य' विचार्य । 'असम्भाव्यप्रमोदभरभास्वरा' असम्भाव्येन-अचिन्त्येन प्रमोदभरणहर्षभरेण भास्वरा-देदीप्यमाना । 'विनिद्रास्या' प्रफुल्लवदना । भद्रा । 'जननीव' माता इव न तु श्वश्रूरिख । 'जनीजनं' वधूजनम्। 'अवादीत्' भाषितवती ॥ १५४ ॥
वत्सा वधूटिकाः ! कल्पकोटिकल्पा विकल्पिता । युष्माभिर्द्वादशाब्दीयं, दुर्लभे प्राणवल्लभे ॥ १५५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २८१॥