________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'शिरीषसुकुमाराङ्गी' शिरीषपुष्पवत् सुकोमलाङ्गी । 'सुयौवना' शोभनं यौवनं यस्याः सा । 'नन्दना' पुत्री, सुभद्रा साध्वी । 'कष्टं' कष्टेन आचर्यते इत्थम्भूतम् । 'व्रतं' दीक्षाम् । 'सासह्यते' भृशं सहते । का इव ? 'पद्मिनी' कमलिनी। 'निदाघमिव' धर्ममिव ॥ १४७ ।।
अहं जराभिभूताऽपि दुःखैरपि सुखैरिव । विप्लाविता शिवाऽन्धेव, कुलिकैर्बदरोद्भवैः ॥ १४८ ॥
अहं जरया-वार्धक्येन । 'अभिभूताऽपि' उपप्लुताऽपि । सुखैरिव दुःखैरपि । 'विप्लाविता' विप्रतारिता । दृष्टान्तमाह'बदरोद्भवैः' बदरजातैः । 'कुलिकैः' फलैः । 'अन्धा शिवेव' अन्धश्रुगाली इव । यदुक्तम्-'बदरेणाऽपि हि प्रभवेत्, शृगालस्य महान् महः ।' श्रुगालीवत् अहमपि तुच्छसांसारिकसुखैः वस्तुत: दुःखरूपैः विप्रतारिताऽस्मीत्यर्थः ॥ १४८ ।।
भद्रं तस्याः सुभद्रायाः, शालिभद्रस्वसुर्यया । व्रतेनैकेन सत्येनानुगतौ वर-सोदरौ ॥ १४९ ॥
शालिभद्रस्य स्वसुः-भगिन्याः तस्याः सुभद्रायाः भद्रं-मङ्गलं भूयात् । यया एकेन सत्येन व्रतेन-सत्याः इदं | तेन सतीव्रतेन वरसोदरौ-पतिभ्रातरौ अनुगतौ-अनुसृतौ ॥ १४९ ॥
स्त्रीणां भ्राता च भर्ता च, श्रृङ्गारौ भुवि दुर्लभौ । तस्याः किमुच्यते यत्तौ, श्रीवीरेण विशेषितौ ॥१५०॥
'भुवि' जगत्याम् । स्त्रीणां भ्राता च भर्ता च सोदरः पतिश्च द्वावपि । 'श्रृङ्गारौ' भूषणरूपौ दुर्लभौ स्तः । 'तस्याः' सुभद्रायाः । किमुच्यते ? 'यत्' यस्मात् । 'तौ' शालिधन्यौ । 'श्रीवीरेण' भगवता । 'विशेषितौ' प्रभुनिश्रया विशेषतां गतौ ॥ १५० ॥
रूपश्रिया जयन्तीव, वैजयन्ती निजान्वये । सा मे सुता समायाता, शीलशैलेशचूलिका ॥ १५१ ॥
8282828282828282828282828282828888
॥ २८०॥