________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
शाले: । 'मुखमपि विस्मृतं' कीदृशं तस्य मुखमासीत् इत्यपि न स्मरामि । 'न च भद्रा न जीवति' जीवत्येव इत्यर्थः । द्वौ नौ प्रकृतमर्थं दर्शयतः । हा ! कथं जीवामि इति चिन्तयति सा ॥ १४३ ॥
त्यक्तताम्बूलकल्पेऽत्र, भाव्यन्ते शालिवैभवे । कर्पूरपारिकाकारा, रङ्गरेखाजुषः स्नुषाः ॥ १४४ ॥
अत्र त्यक्तताम्बूल कल्पे-उज्झितताम्बूलतुल्ये । 'शालिवैभवे' शालिसमृद्धौ । 'रङ्गरेखाजुषः' वर्णलेखायुक्ताः अपि। 'स्नुषाः' पुत्रवध्वः । 'कर्पूरपारिकाकाराः' घनसारघट तुल्याः पाण्डुवर्णाः । 'भाव्यन्ते' दृश्यन्ते ॥ १४४ ॥
विना पतिं च पुत्रं च, वशेवाहो निरङ्कशा । सुखं निद्रायते भद्रा, निष्कृपा निरपत्रपा ॥ १४५ ॥
'पतिं च पुत्रं च विना' गोभद्रं शालिभद्रं च विना । अहो आश्चर्ये । 'वशा इव' हस्तिनी इव । 'निरङ्कशा' स्वच्छन्दा। 'निष्कृपा' निष्करुणा । 'निरपत्रपा' निर्लज्जा । भद्रा । 'सुखं निद्रायते' सानन्दं घूर्णायते-इति भद्रा-चिन्तनम् ॥ १४५ ।।
सा शालिजननीत्वेन, सम्भाव्ये कोविदैः कथम् । याऽहं शस्येषु गण्यापि, भद्रिकेव हि वातिका ॥१४६ ॥
या अहं-भद्रा । 'शस्येषु' प्रशस्येषु । पक्षे धान्येषु । 'गण्याऽपि' माननीयाऽपि 'भद्रिकेव' 'भद्रिका' तुच्छधान्यविशेष: तत्समा । 'भाद्रडी' इति भाषायाम् । हिः निश्चये । 'वातिका' वातुला-वायुकरी । 'भद्रिकेवातिवातिका' इत्यपि पाठः। 'सा' अहं भद्रा । 'कोविदैः' विचक्षणैः । 'शालिजननीत्वेन' शालिभद्रमातृत्वेन । पक्ष-शालिधान्यभूमित्वेन । कथं सम्भाव्ये-सम्भावनाविषयीभवामि ? ॥ १४६ ॥
शिरीषसुकुमाराङ्गी, नन्दना मे सुयौवना । सासह्यते व्रतं कष्टं, निदाघमिव पद्मिनी ॥ १४७ ॥
8282828282828282828282828282828888
॥ २७९ ॥