________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
इतः । 'पुत्रिका-पुत्र-जामातृ-श्रीवीरागमजैः' पुत्रिका-सुभद्रा, पुत्रः शालिः, जामाता-धन्य: श्रीवीरश्च प्रभुः तेषां आगमात्-आगमनात् जातैः । 'चतूरूपैः' पुत्री-पुत्र-जामातृप्रभुगतैः चतुर्विधरूपैः । नदीपक्षे-चतुर्दिग्गतैः । 'काष्ठागतैः' काष्ठां-पराकाष्ठां गतैः-प्राप्तैः । पक्षे दिग्गतैः चतूरूपैः । 'हर्षपूरैः' प्रमोदप्लवैः । 'प्रपूरिता' प्रपूर्णा ॥ १३९ ॥ 'ध्यानान्तरतरुच्छेदच्छेका' ध्यानान्तराणि-वीराद्यागमनध्यानाद् अन्यध्यानादि तानि एव तरवः तेषां छेदकारिका, पूरे प्रसृते भज्यन्ते हि तरवः । 'भद्रातरङ्गिणी' भद्रामाता । पक्षे-भद्रानदी । 'रसैः' स्नेहरसैः । पक्षे-जलैः । 'चिरण्टिकाचुण्टी: अपि' वधूकूषिका: अपि । 'अञ्जसा' द्राग् । 'अपूरयत्' पूरितवती ॥ १४० ॥
अचिन्तयच्च दिष्ट्याऽद्य, भाग्यैर्जागरितं मम । आययौ श्रीमहावीरस्त्रिलोकीतिलकोऽत्र यत् ॥ १४१॥
'अचिन्तयच्च' चिन्तितवती च भद्रा । अद्य दिष्ट्या-आनन्दद्योतकमव्ययम् । मम भाग्यैः-पुण्यैः जागरितं-प्रकटितम् । यत् त्रिलोकीतिलकः-त्रिजगदवतंसः । श्रीमहावीरः आययौ ॥ १४१ ॥
अन्यच्च मम सर्वस्वं, मम जीवितजीवितम् । वत्सः श्रीशालिभद्रश्च, सांयात्रिक इवागमत् ॥ १४२ ॥
'अन्यच्च' अपरं च । मम सर्वस्वं-सर्वधनतुल्यम् । जीवितजीवितं' मम प्राणानामपि प्राणाः । वत्सः' प्रियपुत्रः श्रीशालिभद्रः। 'आगमत्' आगतः । कः इव ? 'सांयात्रिकः इव' पोतवणिग् इव । सांयात्रिक: समुद्रयात्रां कृत्वा पुनरागच्छति तथा ।। १४२ ।।
सौधस्य सुतशून्यस्य, द्वादशः परिवत्सरः । विस्मृतं मुखमप्यस्य, न च भद्रा न जीवति ॥ १४३ ॥ 'सुतशून्यस्य' पुत्ररहितस्य । 'सौधस्य' प्रासादस्य । अयं द्वादशः परिवत्सर:-इदं द्वादशं वर्षम् वर्तते । 'अस्य'
828282828282828282828282828282828482
॥ २७८ ॥