________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सद्मभारधरोऽपि' गृहभारधरोऽपि । 'सल्लकीस्तम्भः' सल्लकी-लताविशेषः तस्याः स्तम्भः । 'सल्लकी तु गजप्रिया' इति हैम्याम् । 'रसासङ्गेन' पृथ्वीयोगेन । 'पल्लवी' पल्लवा: किसलयानि विद्यन्ते यस्य सः, अत: इन् । 'जायेत' स्यात् । तथा शीलाङ्गभागपि शीलाङ्गधरोऽपि साधुः । 'रसासङ्गेन' रसानां-मधुरादीनां श्रृङ्गारादीनां च 'आसङ्गेन' संयोगेन । 'पल्लवी' रागवान् । जायेत ॥ १३६ ॥
साधुः स्वजनसंसर्गाद्, भवेद् रागाकरोद्धरः । तयोः परं रसावेशात्, न भेदः कीरदारुवत् ॥ १३७ ॥
'स्वजनसंसर्गात्' स्नेहिजनसंयोगात् । 'साधुः' सामान्यसाधुः । 'रागाङ्करोद्धरः' रागाङ्कराणां उद्धरः उद्भवः यस्मिन् तादृशः । भवेत् । 'परं' परन्तु । 'तयोः' शालिधन्ययोः । 'रसावेशात्' रसानां मधुरादिश्रृङ्गारादिरसानां अवेशात् अप्रवेशात् । कीरकाष्ठपक्षे रसायां पृथिव्यां आवेशात् आ समन्तात् वेशात् प्रवेशात् । 'कीरदारुवत्' कीरजातीयकाष्ठवत् । 'न भेदः' न रागादीनामुद्भेदः । पक्षे न अङ्कराणामुद्भेदः अभूत् ॥ १३७ ॥
शालिभद्र-धन्यौ स्वजनैः न लक्षितौतथा मनोवचःकायैः, परावृत्तिरभूत्तयोः । यथा स्वगृहजैर्मोहस्नेहरागैर्न लक्षितौ ॥ १३८ ॥
'तयोः' शालिधन्ययोः । 'मनोवचःकायैः' चेतोवचनदेहैः । 'तथा' तेन प्रकारेण । 'परावृत्तिः' परिवर्तनम् । 'अभूत्' जातम् । यथा मोहस्नेहरागै:-मोहश्च स्नेहश्च रागश्चच येषां तैः । 'स्वगृहजैः' स्वजनैरपि । 'न लक्षितौ' न उपलक्षितौ ।। १३८ ।
पुत्रिकापुत्रजामातृश्रीवीरागमजैरितः । काष्ठागतैश्चतूरूपैर्हर्षपूरैः प्रपूरिता ॥ १३९ ।। ध्यानान्तरतरुच्छेदच्छेका भद्रातरङ्गिणी । रसैश्चिरण्टिकाचुण्टीरप्यपूरयदञ्जसा ॥ १४० ॥
82828282828282828282828282828282888
॥ २७७॥