________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्रीपथे सञ्चरन्तौ तौ, श्रीमहावीरवारबलात् । भद्राप्रासादमेवाशु, रागदुर्गमिवेयतुः ॥ १२६ ॥
'अमर्षेण' कुधा । 'हर्षेण' प्रमोदेन । 'मर्षेण' इत्यपि पाठः । 'विस्मयेन' आश्चर्येण । 'स्मयेन' मदेन । 'वीडया' लज्जया । 'ईडया' स्तुत्या । 'संस्तवेन' सम्यक् परिचयेन । 'स्तवेन' प्रशंसया । च: समुच्चये । 'न स्पृष्टौ' न ग्रस्तौ तौ शालिधन्यौ मुनी ॥ 'भित्तिचित्रैर्वा' भित्तौ निर्मितालेख्यैरिव, चित्रतुल्यैरित्यर्थः । 'वा' इवार्थे । 'सगोत्रैः' सज्ञातिभिः जनैः । 'वृक्षरिव' वृक्षतुल्यैः । 'दक्षैः' चतुरै । 'आयतौ' आ समन्तात् यतौ सङ्गयत मुनी इत्यर्थः । 'वयोभिर्वा' पक्षिभिरिव । अत्रापि वा इवार्थ: । 'सवयोभिः' सुहृद्भिः । 'कैश्चित्' कैरपि जनैः । 'न उपलक्षितौ' न अभिज्ञातौ ॥ १२५ ॥ 'श्रीमहावीरवाग्बलात्' श्रीमहावीरवचनस्य बलात्-कारणात्, मातृगृहे पारणं भावीति वचनबलात्। 'श्रीपथे' राजमार्गे । 'सञ्चरन्तौ' चलन्तौ । 'तौ' शालिधन्यौ मुनी । 'रागदुर्गमिव' प्रेमप्राकारमिव । 'भद्राप्रासादं' भद्रायाः सौधम् । एव: अवधारणे । 'आशु' क्षिप्रम् । 'ईयतुः' गतौ ॥ १२६ ॥
वैडूर्यधुतिदूर्वासु, मुक्तमुक्ताकणोत्करे । बम्भ्रमीति न तदृष्टिगवी परिवाङ्गणे ॥ १२७ ॥
'पङ्गरिव' पादविकलनरः इव । 'तदृष्टिगवी' शालिधन्यनयनधेनुः । 'वैडूर्यधुतिदूर्वासु' वैडूर्यद्युतयः एव दूर्वाः तासु। 'मुक्तमुक्ताकणोत्करे' मुक्ताः न्यस्ता: मुक्ताकणानां मौक्तिककणानां गवीपक्षे-मौक्तिकतुल्यधान्यकणानां उत्करा: समूहा: यत्र तस्मिन् । 'अङ्गणे' अजिरे । 'न बम्भ्रमीति' न अभीक्ष्णं भ्रमति ॥ १२७ ।।
आत्मीय इति सस्नेह, सपूर्व इति सादरम् । रुग्णः क्वापीति साशङ्क, तादृगेवेति सस्पृहम् ॥ १२८ ॥ आ: ! शून्य इति सोद्वेगं, त्यक्तोऽयमिति सस्मयम् । आलुलोकेऽपि नानेन, स्वप्रासादावतंसकः ।। १२९ ।।
8282828282828282828282828282828282
वड्या
आशु' विप्रम् । 'यतुभन्यौ मुनी । 'रागदुर्गमिवार
॥ २७४॥