________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
भद्राप्रासादप्रवेशे शालिमुनेः चेत:स्थिति दर्शयन्नाह-आत्मीयः-स्वकीय: इति सस्नेह-प्रेमपूर्वकम् । 'सपूर्वः' पूर्वेणभूतकालेन सहितः इति सादरं-आदरपूर्वकम् । 'क्वापि' कुत्रचित् रुग्ण:-भग्नः, (रुजोत् भङ्गे) इति साशङ्क-आशङ्कासहितम् । 'तादृगेव' तादृशः एव अयं यादृशः अस्माभिः त्यक्तः इति सस्पृहं-सकामम् ।। १२८ ॥ 'आ' खेदे । 'शून्यः' दासदास्यादिभिः रहितोऽयं प्रासादः इति सोद्वेगं-उद्वेगपूर्वकम् । 'त्यक्तोऽयं' परिहृतोऽयं ऋद्धिसहितः प्रासादः इति सस्मयं-सगर्वम् । 'स्वप्रासादावतंसकः' निजोत्तमप्रासादः । 'अनेन' शालिमुनिना । 'न आलुलोकेऽपि' न दृष्टोऽपि ॥ १२९ ॥
इतः स्थितमिह भ्रान्तमत्रासितमिहाशितम् । रागमङ्करयत्येव, शून्याऽपि हि विलासभूः ॥ १३० ॥
इतः स्थितं-स्थितिः कृता । इह भ्रान्तं-पर्यटितम् । अत्र आसितं-उपविष्टम् । इह अशितं भुक्तम् । इत्येव शून्याऽपिनिर्जनाऽपि । हि: निश्चये । 'विलासभूः' विलासस्थानम् । 'रागं' स्नेहम् । 'अङ्करयति' प्ररोहयति । किन्तु नीरागस्य शालिमुनेः शून्या विलासभूः न रागं प्ररोहयति इत्यर्थः ॥ १३० ।।
घनागमैः प्रथितया, प्रतिभाति स्म तस्य तु । तरङ्गिण्या समतया, सर्वमेव समीकृतम् ॥ १३१ ॥
'तु' परन्तु । 'तस्य' शालिमुनेः । 'घनागमैः' बहलसिद्धान्तैः । नदीपक्षे-मेघागमनैः । 'प्रथितया' विख्यातया । पक्षे-विशालया । 'समतया' साम्येन । 'तरङ्गिण्या' नद्या । सर्वमेव समीकृतं-समानं विहितम् । 'प्रतिभाति स्म' प्रत्यभात् । यथा नदीपूरे प्रसर्पति सर्वं स्थलं समानं जायते तथा समतया शालिमुनेः सर्वं तुल्यं प्रतिभाति इत्यर्थः ॥ १३१ ॥
अतीत्याङ्गणवेदी ताममितां ममतामपि । अन्यभिक्षाचरौचित्या, तस्थतुः सुस्थितौ पुरः ॥ १३२ ॥ तां अङ्गणवेदी-अजिरस्थलम् । 'अतीत्य' अतिक्रम्य । 'अमितां' अपरिमिताम् । ममतामपि अतीत्य ।
8282828282828282828282828282828282
॥ २७५ ॥