________________
श्री शालिभद्र महाकाव्यम्
BREKER
शालिभद्रं विलोकयन् पश्यन् । 'जिनाधीशः' जिनेन्द्रः श्रीवीरः । 'आदिदेश' आदिशति स्म । यत्-वत्सहे मुने! 'ते' तव । 'सवित्री' माता पारणकारणं भवित्री - भविष्यति ॥ १२० ॥
तमथादाय निर्देशं, सुमनोमार्गदीपकः । समं धन्येन सञ्चेरे, स दिनेन दिनेशवत् ॥ १२१ ॥
अथ दिनेन - दिवसेन समम् । 'दिनेशवत्' सूर्यवत् । 'सः' शालिमुनि: । 'सुमनो मार्गदीपक:' 'पण्डितपथदर्शक: । सूर्यपक्षे-देवमार्ग (आकाश) प्रकाशक: । 'धन्येन समं' धन्यमुनिना सह । 'तं आदेशं' तां श्रीवीराऽऽज्ञाम् । 'आदाय' गृहीत्वा । 'सञ्चेरे' सञ्चरति स्म । समस्तृतीयया | ३| ३ |३२|| इति सम्पूर्वाच्चरेस्तृतीयान्तेन योगे कर्तर्यात्मनेपदम् ॥ १२१ ॥
मृष्टं वैद्योपदिष्टं च, मम सङ्घटते पुरा । निर्ममो नैवमप्यन्तर्विममर्श विमर्शवान् ॥ १२२ ॥
मम मृष्टं-मधुरम् वैद्योपदिष्टं च सङ्घटते युज्यते मातृगृहगमनविषये । एवं विमर्शवान्-विचारवान् । 'निर्ममः ' ममतारहितः। ‘अन्तरपि' मनस्यपि । न विममर्श न विमृशति स्म । स्वगृहगमनाऽऽदेशं प्राप्य न कोऽपि हर्षः जातः इत्यर्थः सर्वत्र साम्यभावात् ॥ १२२ ॥
मोहसैन्यमिवात्यन्तं, परावृत्तिपरौ पुरम् । दक्षौ प्राविक्षतां साक्षाद्, धर्मभूभृच्चराविव ॥ १२३ ॥ 'साक्षात्' प्रत्यक्षम् | 'धर्मभूभृत:' धर्मनृपस्य । 'चरौ इव' गूढपुरुषौ इव । 'दक्षौ' कुशलौ। 'भृशं' अत्यन्तम् । 'परावृत्तिपरौ' पुनरागमनतत्परौ । 'मोहसैन्यमिव' मोहराजबलमिव । 'पुरं' राजगृहनगरम्। 'प्राविक्षतां' प्रविशतः स्म ॥ १२३ ॥ नामर्षेण न हर्षेण, विस्मयेन स्मयेन च । व्रीडयाऽपीडया स्पृष्टौ संस्तवेन स्तवेन न ॥ १२४ ॥ सगोत्रैभित्तिचित्रैर्वा, दक्षैर्वृक्षैरिवायतौ । सवयोभिर्वयोभिर्वा न कैश्चिदुपलक्षितौ ॥ १२५ ॥
KER
षष्ठः
प्रक्रमः
।। २७३ ।।