________________
श्री
शालिभद्र महाकाव्यम्
FRERER
यस्य दृक्प्रीत्यै-नयनरञ्जनाय । 'कर्पूरपाञ्चाल्य इव' कर्पूरघटितसालभञ्ज्य इव । 'वल्लभाः' प्रियाः आसन् । 'तदा' मुनिवे । अस्य पृषताङ्गना:- हरिणाङ्गनाः । 'उत्सङ्गसङ्गिन्यः ' अङ्कस्थायिन्यः । 'आसन्' बभूवुः । साम्यभावेन कायोत्सर्गस्थितस्य शालिमुनेः समीपे हरिणाद्याः निर्भयमागच्छन्तीति भावः ॥ ९२ ॥
वचांसि स्वामिसत्ताया, अर्शांसि किल कर्णयोः । जनन्या अपि यस्याशु, व्यथां पप्रथिरेतराम् ॥ ९३ ॥ कटूत्काररटच्चेटी-कोटीराटिविघट्टनाः । सुधाचुण्टीघटाघाटा - स्तस्याटाट्यासु जज्ञिरे ॥ ९४ ॥
'यस्य' शालिभद्रस्य । 'स्वामिसत्ताया:' स्वामिनः सत्ताया: सम्बन्धिनी । 'जनन्याः अपि भद्रामातुरपि । 'वचांसि ' वचनानि । 'कर्णयोः' श्रवणयोः । 'किलः' निर्णये । 'अर्शासि इव' अर्शो रोगविशेषः तद्वत् । 'आशु' शीघ्रम् । 'व्यथां' पीडाम् । 'पप्रथिरेतरां' प्रथयन्तितरां स्म ॥ ९३ ॥ 'तस्य' शालिमुने: । 'अटाट्यासु' विहारेषु पर्यटनेषु । 'कटूत्कटाररटच्चेटी कोटिराटिविघट्टनाः कटु च उत्कटं च आरटन्तीनां चेटीनां दासीनां कोट्यः राट्यः कलहशब्दाः तेषां घट्टनाः - श्रवणानि । 'सुधाचुण्टीघटाघाटाः' अमृतवापीसमूहसमा: । 'जज्ञिरे' जाताः ॥ ९४ ॥
उत्तुण्डचण्डफेरुण्डा, मण्डिताखण्डमण्डलाः । तस्य स्फीतरुताः कान्ता - सङ्गीतन्ति वनान्तरे ॥ ९५ ॥ 'उत्तुण्डचण्डफेरुण्डाः' उच्चैः तुण्डानि मुखानि तैः चण्डा: भीषणाः फेरुण्डाः - श्रृगाल्य: । 'मण्डिताखण्डमण्डलाः ' मण्डितं अखण्डं सम्पूर्णं मण्डलं देशः याभिः ते । स्फीतरुता बृहद्रवाः । 'तस्य' शालिमुनेः । 'वनान्तरे' अटवीमध्ये | 'कान्तासङ्गीतन्ति' कान्तासङ्गीतमिव आचरन्ति ॥ ९४ ॥
निःशूकघूकषूत्कारा, भैरवीभैरवारवाः । अस्य सत्पथपान्थस्य, सर्वतः शुभसूचकाः ॥ ९६ ॥
षष्ठः
प्रक्रमः
।। २६५ ।।