________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'निःशूकधूकघूत्काराः' नि:शूकाः-निर्दया: ये घूका-उलूका- तेषां घूत्कारा:-शब्दाः । 'भैरवीभैरवारवाः' भैरवीणां दुर्गाख्यचटकिकानां भैरवा:-भयानकाः । आरवा:-शब्दाः । 'सत्पथपान्थस्य' शोभने पथि-मुक्तिमार्गे पान्थस्य प्रवासिनः । 'अस्य' शालिमुनेः । 'सर्वतः' परितः । 'शुभसूचकाः' मङ्गलदर्शकाः आसन् ॥ ९६ ॥
अवावरी मतिर्दोषान् शालेः प्रशमधीवरी । पीवरी श्रुतपीयूषं, परमार्थकदृश्वरी ॥ ९७ ॥
'शाले:' शालिमुनेः । 'मतिः' बुद्धिः । 'दोषान्' दूषणानि 'अवावरी' अपनेत्री । ओण अपनयने, औणति दोषान् अवावरी, वन्याङ् पञ्चमस्य ।४।२।६५।। इति आङ् । 'प्रशमधीवरी' प्रशमं दधातीत्येवंशीला । 'श्रुतपीयूषं' आगमामृतम् । 'पीवरी' पीच पाने । पिबतीत्येवंशीला । णस्वरा-ऽघोषाद् ।।४।४॥ इति अवावर्यादयः । 'परमार्थकदृश्वरी' परमार्थं एव एकं पश्यतीत्येवंशीला । आसीत् ॥ ९७ ॥
अदण्डधारिणा चित्रं, सप्तधातून् सुसाधकौ । तपसा पारदेनावर्तयामासतुराशु तौ ॥ ९८ ॥
'सुसाधकौ' श्रेष्ठाराधको । 'तो' शालिधन्यौ । पक्षे-सुवर्णसाधको । 'अदण्डधारिणा' मनोदण्डादिरहितेन पक्षेदण्डरहितेन। 'पारदेन' पारदायिना भवपारकारिणा । पक्षे-रसेन्द्रेण । 'तपसा' तपश्चर्यया । 'सप्तधातून्' रसादीन् । पक्षेताम्रादीन् । 'आशु' क्षिप्रम् । 'आवर्तयामासतः' शोषितवन्तौ । पक्षे-परिवर्तितवन्तौ । अदण्डधारिणा पारदेन इति चित्रंआश्चर्यम् । यो हि पारदः शोधितः सन् मध्येदण्डं ऊवं बिभर्ति ॥ ९८ ।।
प्राज्यैर्भोज्यरसैः षड्भि-र्दृताः सप्ताऽपि धातवः । श्रृङ्गाराद्याश्च तैरष्टौ, ताभ्यां त्यक्ताः षडप्यतः ॥ ९९ ॥ 'प्राज्यैः' प्रचुरैः । षड्भिः ' मधुरादिषड्भिः । 'भोज्यरसैः' भोजनरसैः । 'सप्तापि धातवः' रसादि-सप्तधातवः ।
8282828282828282828282828282828282
॥ २६६॥