________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
दूना या नासिकाऽमुष्य, राज्ञः परिमलैरपि । सेहे श्मशानगन्धं सा, धूपनीमिव रोगिणः ॥ ८९ ॥
'अमुष्य' श्रेणिकस्य । 'राज्ञः' नृपस्य । 'परिमलैरपि' सुगन्धैरपि । 'अमुष्य' शाले: । या नासिका-घ्राणम् । 'दूना' दुःखिता बभूव । 'सा' नासिका । 'रोगिणः' रोगग्रस्तस्य । 'धूपनीमिव' धूपन्याः धूम्रश्रेणिमिव । 'श्मशानगन्धं' श्मशाने मृतकगन्धम् । 'सेहे' सहते स्म ॥ ८९ ॥ ___ बीभत्सवस्तुदुर्गन्धै-रसौ कल्याणसाधकः । दुर्गन्धाया मृदो गन्धै र्धातुवादीव पिप्रिये ॥ ९० ॥
'बीभत्सवस्तुदुर्गन्धैः' मलाविलदेहवस्त्रादिभिः । धातुवादिपक्षे-गन्धकादिभिः । 'कल्याणसाधकः' मङ्गलमुक्तिसाधकः। पक्षे-सुवर्णसाधकः । 'असौ' शालिमुनिः । 'दुर्गन्धायाः' दुष्टः गन्धः यस्याः सा तस्याः । 'मृदः' मृत्तिकायाः । गन्धैः । 'धातुवादी इव' सुवर्णसाधकः इव । 'पिप्रिये' प्रीति प्राप्नोति स्म ॥ ९० ॥
दिव्यनाट्यनटीनाट्य-लौकैरभ्यासमीयुषी । मन्ये दृगप्यभूत्तादृग्, नासावंशाग्रनर्तकी ॥ ९१ ॥
'दिव्यनाट्यनटीनाट्यऽऽलोकैः' दिव्यनाट्यं-देवसम्बन्धि नाटकं नटीनाट्य-मनुष्यसम्बन्धि नटीनाट्यं च तेषां आलौके: दर्शनैः । 'अभ्यास' संस्कारम् । 'ईयुषी' प्राप्तवती । 'दृगपि' नयनमपि । 'तादृग्' नटीतुल्या । 'नासावंशाग्रनर्तकी' नासा एव वंश: तस्य अग्रे अग्रभागे नर्तकी नर्तनकारिका तत्समा । अभूदिति मन्ये । स्थापयन्ति हि योगिनः नासाग्रभागे स्वनयने ॥ ९१ ।।
दृक्प्रीत्यै यस्य कर्पूर-पाञ्चाल्य इव वल्लभाः । आसन्नुत्सङ्गसङ्गिन्य-स्तदाऽस्य पृषताङ्गनाः ॥ ९२ ॥
828282828282828282828282828282828282
साग्रभागे स्वयवशः तस्य अंग्रे याषी' प्राप्तवती । दानटीनाट्य-मन
॥ २६४॥