________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यस्य' शालिभद्रस्य। मसृणे' कोमले। 'मणिकुट्टिमे' रत्नबद्धभूमौ । 'चङ्क्रमणं' भ्रमणम् । अभूत् । 'स' शालिमुनिः । 'असम्भ्रमी' सम्भ्रममुक्त: । 'वैश्वानररथ्यासु' अग्निरथ्यासु, अग्निसमतप्तमार्गेषु । 'बम्भ्रमीति' अभीक्ष्णं भ्रमति ॥ ८५ ॥
राजदारा इवासूर्य-म्पश्या यस्याऽभवत्तनुः । ध्वजा रविरथस्येव, न च्छायामृच्छति स्म सा ॥ ८६ ॥
यस्य तनुः-शरीरम् । 'असूर्यम्पश्या' सूर्यं न पश्यतीत्येवंशीला । 'राजदारेव' राजीव । अभवत् । 'रविरथस्य' सूर्यस्यन्दनस्य । 'ध्वजा इव' पताका इव । 'सा' तनुः । छायां न ऋच्छति स्म-न जगाम्, न प्राप्नोति इत्यर्थः । यथा रविरथध्वजा सदा सूर्यसम्पर्कात् कदापि छायां न प्राप्नोति तथा शालिमुनिरपि सदा सूर्यातपे तिष्ठतीत्यर्थः ॥ ८६ ॥
कल्पद्रुमफलास्वादः सदा यस्य वशंवदः । अटाट्यते प्रतिकुटं, स भिस्साभिस्सट्टाकृते ॥ ८७ ॥
'कल्पद्रुमफलास्वादः' कल्पतरुफलभोजनम् । 'सदा' नित्यम् । 'यस्य' शालिभद्रस्य । 'वशंवदः' आधीनः । 'सः' शालिमुनिः । 'प्रतिकुटं' प्रतिगृहम् । 'भिस्सा भिस्सट्टाकृते' भिस्सा-ओदनः भिस्सट्टा-कुत्सिता भिस्सा भिस्सट्टा, लक्षानुरोधाट्टः, दग्धिका, दग्ध: ओदनः इत्यर्थः । 'भिस्सा दीदिविरोदनः' इति 'भिस्सटा दग्धिका' इति च हैम्याम् । 'अटाट्यते' अभीक्ष्णं अटति ॥ ८७ ॥
दिव्यामृतरसै र्नासीद्, या प्रीतिः स्फीतिशालिनी । शास्त्रविन्नैः कदन्नः सा, तस्याभूद्यापनापरैः ।। ८८॥
तस्य दिव्यामृतरसैः देवदत्तसुधारसैः । या स्फीतिशालिनी-स्फारा । 'प्रीतिः' स्नेहः । 'नासीत्' न अभवत् । 'सा' प्रीतिः । 'यापनाकरैः' निर्वाहकैः । 'शास्त्रविन्नैः' पिण्डविशुद्ध्यादि शास्त्रख्यातैः । 'कदन्नः' कुत्सितान्नैः तस्य अभूत् ॥ ८८ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २६३॥