________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
मलिनं सत् । 'किट्टितलोहतां' किट्टितश्वासौ लोहश्च, तस्य भावः तत्ताम् । 'कटायेलुं लोढुं' इति भाषायाम् । अगात् । इति ऊहे-मन्ये ॥ ८१ ॥
तस्य गात्रं कान्तलोह-पात्रं यत्र शमः पयः । उपसर्गाग्नितापेऽपि, शिखामाप विशेषतः ॥ ८२ ॥
'तस्य' शालिमुनेः । 'गात्रं' शरीरम् । 'कान्तलोहपात्रं' कान्तलोहेन निर्मितं पात्रं तत्तुल्यम् । कान्तलोहभाजने अग्नितापे सति दुग्धं न उत्फणतीति लोकोक्तिः । किन्तु 'यत्र' शालिशरीरे । 'शमः पयः' क्षान्तिदुग्धम् । 'उपसर्गाग्नितापेऽपि' परीषहानलतापेऽपि । विशेषतः । 'शिखां' वृद्धिरूपाम् । 'आप' प्राप्तम् । इति आश्चर्यम् ॥ ८२ ॥
मन्दारपुष्पशय्यासु, सुखं तेनाऽन्वभावि यत् । एतत्कठोरभूपीठ-लोठे निर्लोठितं हठात् ॥ ८३ ॥
'मन्दारपुष्पशय्यासु' मन्दारपुष्पाणां कल्पवृक्षकुसुमानां शय्यासु शयनीयेषु । 'तेन' शालिमुनिना । 'यत् सुखं' शर्म। 'अन्वभावि' अनुभूतम्, अनुभवनेन भृतमित्यर्थः । एतत्' सुखम् । 'कठोरभूपीठलोठैः' 'कठोरे' कठिने 'भूपीठे' पृथ्वीतले 'लोठैः' लुण्ठनैः । 'हठात्' बलात्कारेण । 'निर्लोठितं' अधःक्षिप्तम् ॥ ८३ ॥
दिव्यमाभरणं यस्य, विभाति स्म नवं नवम् । कटौ पटच्चरं तस्य, नटति स्म गतस्मयम् ॥ ८४ ॥
'यस्य' शाले: । 'कटौ' कटिप्रदेशे । 'नवं नवं' प्रतिदिनं नूतनम् । 'दिव्यं' परमम् । 'आभरणं' विभूषणम् । 'विभाति' शोभते । 'तस्य' शालिमुनेः कटौ पटच्चरं जीर्णवस्त्रम् । 'जीर्णवस्त्र पटच्चरम्' इति हैम्याम् । 'गतस्मयं' गतगर्वम्, क्रियाविशेषणमिदम् । 'नटति स्म' नृत्यति स्म विभाति स्म इत्यर्थः ।। ८४ ॥
अभूच्चङ्क्रमणं यस्य, मसृणे मणिकुट्टिमे । स वैश्वानररथ्यासु, बम्भ्रमीति त्वसम्भ्रमी ॥ ८५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २६२॥