________________
श्री शालिभद्र
महाकाव्यम्
विनष्टं श्रुतं शास्त्रं याभ्यां तौ, विरोधपरिहारे आह विख्यातौ । 'धन्यौ' सुकृतिनौ । धन्यशालिमुनी । 'दुस्तपं' दुष्करम् । 'तपः' तपश्चर्याम् । 'तेपाते' तप्तवन्तौ ॥ ७८ ॥
यत्र देहे नृपश्वासैः, सूचीसूचा प्रपञ्चिता । लूका झलझला तत्र, मलयानिलतां गता ॥ ७९ ॥ 'यत्र देहे' यस्मिन् शरीरे। 'नृपश्वासैः' श्रेणिकोच्छवासै: । 'सूचीसूचा' सूचिकाकल्पना । 'प्रपञ्चिता' कथिता । 'तत्र' शरीर 'झलझला' जाज्वल्यमाना । 'लूका' उष्णकालवायुः । 'लू' इति भाषायाम् । 'मलयानिलतां' मलयाद्रिपवनतुल्यतां शीततामित्यर्थः । 'गता' प्राप्ता ॥ ७९ ॥
यद्राजकरसम्पर्का -दपि तापमवाप तत् । चण्डांशुकरसंसर्ग, देहं सेहे मृणालवत् ॥ ८० ॥
'यत्' देहम् । 'राजकरसम्पर्कादपि' राज्ञः श्रेणिकस्य करसम्पर्कादपि हस्तसम्पर्कादपि । कमलनालपक्षेचन्द्रकिरणसम्पर्कादपि । 'तापं' शारीरिकं मानसिकं तापम् । 'अवाप' प्राप्तम् । 'तत्' देहम् । 'चण्डांशुकरसंसर्ग' सूर्यकिरणसम्पर्कम् । 'मृणालनालवत्' कमलनालवत् । 'सेहे' सोढवत् । चन्द्रसंसर्गात् कमलनालं सन्तापं प्राप्नोति किन्तु सूर्यसम्पर्कं सानन्दं सहते तथा शालिमुनेरपि शरीरं श्रेणिकश्वासैः दूनमधुना सूर्यातपं सहते ॥ ८० ॥
यत्र गोशीर्षचर्चाऽपि, स्वर्णे गैरिकतामगात् । मलाविलं तदेवाङ्ग-मूहे किट्टितलोहताम् ॥ ८१ ॥
'यत्र' देहे । 'गोशीर्षचर्चाऽपि ' हरिचन्दनविलेपनमपि । स्वर्णे गैरिकताम् अगात् । सुवर्णे स्वयं सुशोभने स गैरिकघट्टनं मुधा तद्वत् तस्य तदा गोशीर्षचर्चाऽपि मुधा अभवत् । 'तदेवाङ्गं' तत् शरीरमेव । 'मलाविलं' मलेन आविलं
KER
षष्ठः
प्रक्रमः
।। २६१ ।।