________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
देवशिल्पिनौ। 'महामुनी' शालिधन्यौ ॥ ७४ ॥ 'प्रतिमाशतशालिना' प्रतिमानां साधुप्रतिमानां शतेन शालते-शोभते इत्येवंशीलेन । मन्दिरपक्षे-प्रतिमानां जिनमूर्तीनां शतैः शालिना । 'श्रीमहोदयहेतुना' श्रीमोक्षकारणेन । पक्षे लक्ष्मीमुक्तिकारणेन । 'विहारेण' नवकल्पादिरूपविचरणेन । 'विहारेण' प्रासादेन । 'तौ' शालिधन्यौ । 'क्षोणी' पृथ्वीम् । 'अलञ्चक्रतुः' अलङ्करुतः स्म ॥ ७५ ॥
अध्यजीगपदेकाद-शाङ्गी श्रीगौतमस्त्वमू । पात्रे निवेशिता विद्या, कल्याणाय द्वयोरपि ॥ ७६ ॥
'श्रीगौतमः' प्रथम: गणधरः । 'अमू' शालिधन्यौ । 'एकादशाङ्गी' आचाराङ्गादि विपाकसूत्रान्ताम् । 'अध्यजीगपत्' अध्यापितवान् । 'पात्रे' सुपात्रे । 'निवेशिता' प्रदत्ता । 'विद्या' ज्ञानम् । 'द्वयोः' गुरुशिष्ययोः । 'कल्याणाय' मङ्गलाय भवति ॥ ७६ ।।
गुरुणा गौतमेनेह, गोतमेनेव सङ्गतौ । अभूतां कल्यानड्वाहा-विव तौ साधुशिक्षितौ ॥ ७७ ॥
'गोतमेन इव' उत्तमगवा इव । 'गौतमेन गुरुणा' गौतस्वामिना गुरुणा सह । 'सङ्गतौ' युक्तौ । 'इह' भुवि । 'तो' शालिधन्यौ मुनी । 'कल्यानड्वाही इव' प्रधानवृषभौ इव । 'साधुशिक्षितौ' साधु-सम्यक् साधुभिर्वा शिक्षितौअध्यापितौ । 'अभूतां' बभूवतुः ॥ ७७ ॥
गीतार्थौ निर्विगीतार्थों, सुश्रुतावपि विश्रुतौ । धन्यशालिमुनी धन्यौ, तेपाते दुस्तपं तपः ॥ ७८ ॥
'गीतार्थों' गीत: ज्ञात: अर्थः शास्त्रार्थः उत्सर्गापवादाभ्यां याभ्यां तौ । निर्विगीतार्थों, तत्कथम् ? विरोधपरिहारे आह-विगीतं विगानं निन्दितं तस्य अर्थः-कार्य, निर्गत: विगीतार्थः याभ्यां तौ । सश्रुतौ-बहुश्रुतौ अपि विश्रुतौ विगतं
8282828282828282828282828282828282
॥ २६०॥