________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
साङ्क्रामिकं हि भाग्यस्य, फलं सत्त्वस्य नो पुनः । शालिपुण्यैः सुखं प्राप्ताः, तत्सत्त्वैर्न वयं व्रतम् ।। ७२ ।। 'भाग्यस्य' शालिपुण्यस्य । 'साङ्क्रामिकं' सङ्क्रमणशीलम् । 'फलं' अस्माकं प्राप्तम् । नो पुनः सत्त्वस्यआत्मबलस्य फलं प्राप्तम् । शालिपुण्यैः' पतिभाग्यैः । वयं सुखं दिव्यर्द्धिरूपम् । 'प्राप्ताः' लब्धवत्यः । किन्तु । 'तत्सत्त्वैः' शालिभद्रसत्त्वैः 'व्रतं' दीक्षाम् । न प्राप्ताः ॥ ७२ ॥
नश्यत्सुखाः स्नुषाः ॥ ७३ ॥
एवं वियोगविवशा, दिवसानत्यवाहयत् । समान् समासहस्त्रस्य तस्याः 'एवं' उपर्युक्तप्रलापेन । 'वियोगविवशाः' विरहव्याकुलाः । 'तस्याः ' भद्रायाः 'नश्यत्सुखाः' नश्यन्ति सुखानि यासां ताः । 'स्नुषा:' पुत्रवध्वः । समासहस्त्रस्य वर्षसहस्रस्य । 'हायनोऽब्दं' समाः शरत्' इति हैम्याम् । 'समान्' तुल्यान् । 'दिवसान्' दिनानि । 'अत्यवाहयत्' अतिवाहितवत्यः ॥ ७३ ॥
धन्य- शालिभद्रयोः संयम साधना
प्राप्याऽथ जिनराजाज्ञां विश्वकर्मापराजितौ । द्रव्यादीनां विचारज्ञौ, सूत्रधारौ महामुनी ॥ ७४ ॥ विहारेण विहारेण, प्रतिमाशतशालिना । तावलञ्चक्रतुः क्षोणीं, श्रीमहोदयहेतुना ॥ ७५ ॥
अथ । 'जिनराजाज्ञा' अर्हतो महावीरस्य । 'आज्ञां' आदेशम् । 'प्राप्य' लब्ध्वा । 'विश्वकर्मापराजितौ' विश्वकर्मभ्यः सकलकर्मभ्यः अपराजितौ । सूत्रधारपक्षे- विश्वकर्मणा देववर्धकिना अपि अपराजितौ । 'द्रव्यादीनां' द्रव्यक्षेत्रकालभावानाम् । 'विचारज्ञौ' आलोचकौ । पक्षे काष्ठादिद्रव्याणां विचारज्ञौ 'सूत्रधारौ' सूत्रं आचाराङ्गादि तद्धारकौ । पक्षे वर्धकी,
षष्ठः
प्रक्रमः
।। २५९ ।।