________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वर्जिताः स्मः । 'तेन' तस्मात् । 'ध्रुवं' निश्चितम् । वयं खलरसाः-खलानां रसा भूमिः तत्तुल्या: । 'जगती मेदिनी रसा' इति हैम्याम् । खलभूमौ धान्यानि शोध्यन्ते ततस्तत्र धान्यपरिमलो भवति न तु तत्प्ररोहः । एवमेव वयमपि खलभूमिसमाः एव मङ्गलरहिताः इति शालिप्रियाचिन्तनम् ॥ ६८ ॥
सकर्णांस्तूर्णयेत् स्वर्ग-वर्णिका वर्णिताऽप्यहो । निर्वणिताऽप्यकर्णाभिरस्माभिरपकर्णिता ॥ ६९ ॥
अहो आश्चर्ये । 'वर्णिता अपि' कथिता अपि । 'स्वर्गवर्णिका' स्वर्गसम्पत्तिः । 'सकर्णान्' विदुषः । 'तूर्णयेत्' तत्प्राप्तये तूर्णं कारयेत् । अस्माभिः अकर्णाभिः-मुर्खतुल्याभिः । 'निर्वर्णिताऽपि' दृष्टाऽपि स्वर्गसम्पत्तिः । 'अपकर्णिता' अवगणिता ॥ ६९ ॥
यदयं दिव्यभोगाङ्गसुभगः प्राणवल्लभः । नान्वयायि शशीवात्र, तारभिर्ग्रहणक्षणे ॥ ७० ॥
'यत्' यस्मात् । 'ग्रहणक्षणे' ग्रहणस्य समये । 'ताराभिः' तारिकाभिः । 'शशी इव' चन्द्रः इव । 'दिव्यभोगाङ्गसुभगः' दिव्यभोगाङ्गैः सुभगः सौभाग्यवान् । 'प्राणवल्लभः' प्राणप्रियः पतिः । 'अयं' शालिभद्रः । 'अस्माभिः' तत्प्रियाभिः । 'नान्वयायि' न अनुसृतः ॥ ७० ॥
भूगतैरावताद् भृङ्ग्यो , मन्दाराणि धयन्त्यहो । समं तेन तु नो यान्ति, स्वर्गमार्ग तथा वयम् ॥ ७१ ॥
'भृङ्गयः' भ्रमर्यः । 'भूगतैरावतात्' भूगतात्-पृथ्वीप्राप्तात् ऐरावतात्-इन्द्रहस्तिन: । 'मन्दाराणि' कल्पवृक्षपुष्पाणि । 'अहो' आश्चर्ये । 'धयन्ति' लिहन्ति । 'तु' किन्तु । 'तेन' ऐरावतेन । 'सम' सह । 'स्वर्गमार्ग' देवलोकमार्गम् । 'नो यान्ति' न गच्छन्ति । तथा वयमपि तस्य दिव्यसमृद्धिभोगे सहभागिन्यः अभवामः, किन्तु चरित्र मार्गे न ॥ ७१ ॥
828282828282828282828282828282828282
॥ २५८ ॥