________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भृशं रक्षाकृते चिन्ता-हेतुः सूनोर्जनीजनः । तस्या जज्ञे यथा कायः, परकायप्रवेशिनः ॥ ६५ ॥
'रक्षाकृते' रक्षणार्थम् । 'सूनोः' शालिभद्रस्य । 'जनीजन:' वधूजनः । 'तस्याः ' भद्रायाः । 'भृशं' अत्यन्तम् । 'चिन्ताहेतुः सन्तापकारणम् । 'जज्ञे' जातः । यथा परकायप्रवेशिन:-अन्यशरीरावगाहिनः योगिनः । 'कायः' प्राणहीनं शरीरं रक्षणार्थं चिन्ताकारणं भवति तथा । यदि योगिनः प्राणहीनं शरीरं नष्टं स्यात् तहि योगी अन्यस्मिन्नेव शरीरे स्थितः आपत्तिं गच्छेत् ॥ ६५ ॥
सेनाः स्वामिपरित्यक्ताः, ज्ञानशून्याः क्रिया इव । विद्या अमूलमन्त्राश्च, भाग्यहीना गुणालयः ॥ ६६ ॥ करेणवो तथा यूथनाथेन च विवर्जिताः ।शालित्यक्ताः शालिकान्ताः, श्रान्तास्तद्वद्व्यचिन्तयन् ॥६७ ॥(युग्मम् )
यथा । 'स्वामिना' सेनापतिना । 'परित्यक्ताः' विहीनाः । 'सेनाः' सैन्यम् । 'ज्ञानशून्याः' ज्ञानरहिताः । 'क्रियाः' अनुष्ठानानि । 'अमूलमन्त्राः' मूलानि वनस्पतिमूलानि मन्त्राश्च तैः रहिताः । 'विद्याः' वशीकरणादिविद्याः । 'भाग्यहीनाः' भाग्यरहिताः । 'गुणालयः' गणश्रेणयः ।। ६६ ॥ 'यूथनाथेन' यूथस्वामिना । 'विवर्जिताः' रहिताः । 'करेणवः' हस्तिन्यः। तद्वत् । 'श्रान्ताः' क्लान्ताः । 'भ्रान्ताः' अपि पाठान्तरे । 'शालिकान्ताः' शालिभद्रस्य द्वात्रिंशत् प्रेयस्यः । 'व्यचिन्तयन्' अग्रे वक्ष्यमाणं चिन्तितवत्यः ॥ ६७ ॥
अलं परिमलं शालेः, कलयन्त्योऽपि निष्कला: । शस्येन रहितास्तेन, ध्रुवं खलरसा वयम् ॥ ६८॥
'शालेः' शालिभद्रस्य । खलभूमिपक्षे-शालिधान्यस्य । 'अलं' अत्यर्थम् । 'परिमलं' सुगन्धम् । 'कलयन्त्योऽपि' धारयन्त्योऽपि | 'निष्कलाः' धर्मादिकलारहिताः । पक्षे पुष्परहिताः । 'शस्येन' मङ्गलेन । पक्षे-धान्येन । 'रहिताः'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २५७॥