________________
षष्ठः
श्री शालिभद्र महाकाव्यम्
प्रक्रमः
8282828282828282828282828282828282
सारथितुल्येन । 'मनोरथः' मम मनः एव रथ: मुक्तिमनोरथो वा । 'प्रमाणभूमि' प्रकृष्टः मानः गौरवं यत्र तथाविधां प्रमाणभूमि-मुक्तिस्थानमित्यर्थः । 'अभ्येतु' गच्छतु ॥ ५३ ॥
इत्युदीर्य लसर्याद्, भूषणान्यस्तदूषणः । तनोस्तत्याज निर्व्याजं, प्रतिबन्धं स चेतसः ॥ ५४ ॥
इति उदीर्य कथयित्वा । 'लसद्धैर्यात्' लसत् स्फुरत् धैर्यं यस्मिन् तस्मात् । 'तनोः' देहात् । 'अस्तदूषणः' अस्तानि नष्टानि दूषणानि यस्मात् स: शालिभद्रः । 'भूषणानि' अलङ्कारान् । 'निर्व्याजं' निष्कपटम् । 'तत्याज' त्यजति स्म । 'चेतसः' मनसः । 'प्रतिबन्धं' आसक्तिम् । चः समुच्चये । तत्याज ॥ ५४ ॥
ततश्च देवदूष्येण परिचीवरितः परम् । उद्दधे कुन्तलान्मोह-प्ररोहानिव मुष्टिभिः ॥ ५५ ॥
'ततश्च परं' तत्पश्चात् । 'देवदूष्येण' दिव्यवस्त्रेण । 'परिचीवरितः' चीवराणि परिहितानि येन सः । चीवरात् परिधानेऽर्जने ।३।४।४१ ॥ इति परिधानार्थे णिङ्। 'मुष्टिभिः' मुचुटिभिः । 'मोहप्ररोहानिव' मोहवृक्षस्य प्ररोहान्-अङ्करानिव । 'कुन्तलान्' केशान् । 'उद्दधे' आकृष्टवान् । केशलुञ्चनं कृतमित्यर्थः ॥ ५५ ॥
भद्रा नदीवाश्रुपूरै-हँसलक्षणशाटिका । सकेशान् भूषणान् दधे, सभृङ्गस्वर्णपद्मवत् ॥ ५६ ॥
'हंसलक्षणशाटिका' हंसलक्षणा हंसवर्णा श्वेता शाटिका यस्याः सा । 'अश्रुपूरैः' बाष्पपूवैः । 'नदीव' सरिद् इव। 'सभृङ्गस्वर्णपद्मवत्' भ्रमरयुक्तकनककमलवत् । 'सकेशान्' बालयुक्तान् । 'भूषणान्' अलङ्कारान् । भूषणशब्दः पुंलिङ्गोऽपि । 'दभ्रे' धारयामास जग्राह इत्यर्थः ॥ ५६ ॥
श्रीवीरः श्रीनिवासेन, पद्महस्तेन चारुणा । निवारितभवव्रज्यां, परिव्रज्यां स्वयं ददौ ॥ ५७ ॥
82828282828282828282828282828282888
॥ २५४॥