________________
षष्ठः
शालिभद्र महाकाव्यम्
। स्वयं' आत्मना । श्रीनिवासेन' श्री लक्ष्मी: आन्तरलक्ष्मीः तस्याः निव
प्रक्रमः
8282828282828282828282828282828282
'श्रीवीर:' श्रीवर्धमानस्वामी । 'स्वयं' आत्मना । 'श्रीनिवासेन' श्री: लक्ष्मी: आन्तरलक्ष्मीः तस्याः निवासः यत्र तेन । 'चारुणा' मनोहरेण । 'पद्महस्तेन' पद्मतुल्येन हस्तेन । 'निवारितभवव्रज्यां' निवारिता भवस्य संसारस्य व्रज्या भ्रमणा यत्र ताम् । 'परिव्रज्यां' दीक्षाम् । 'ददौ' दत्तवान् ॥ ५७ ॥
संयमश्रीविवाहेऽस्य, धन्यो धन्यमुनिस्तदा । युक्तं स्वसृपतिः प्रापदानुचर्येण वर्यताम् ॥ ५८ ॥
'अस्य' शालिभद्रस्य । संयमश्रीविवाहे' चारित्रलक्ष्मीपाणिग्रहणे । तदा' तस्मिन् काले। धन्यः' सुकृती। 'स्वसृपतिः' भगिनीपतिः धन्यमुनिः । 'आनुचर्येण' अनुचरत्वेन । 'वर्यतां' श्रेष्ठताम् । 'प्रापत्' प्राप्तवान् । 'युक्तं' तत् उचितम् ॥ ५८ ॥
सङ्गतिः सङ्गता शालेः, सर्वशस्यशिरोमणेः । मात्राधिकेन धन्येन, जगज्जीवातुनाऽमुना ॥ ५९ ॥ ___ 'सर्वशस्यशिरोमणेः' सकलप्रशस्यपुरुषमुख्यस्य । धान्यपक्षे-सकल-धान्यमुख्यस्य । 'शालेः' शालिभद्रस्य । पक्षेशालिधान्यस्य । 'जगज्जीवातुना' जगज्जीवरक्षकेण । पक्षे जगज्जीवनदायिना । 'मात्राऽधिकेन' एकदिवसपर्यायाधिकेन । धन्येन मुनिना किल शालिभद्रात् पूर्व दीक्षा गृहीता । पक्षे-धकारे एकया मात्रया अधिकेन, अर्थात् धान्येन । 'अमुना धन्येन' धन्यमुनिना सह । 'सङ्गतिः' मित्रता । 'सङ्गता' उचिता । यथा धान्यशिरोमणिशालेः अन्योत्तमधान्येन सह मैत्री उचिता तथा शालिभद्रस्य पर्यायाधिकेन धन्यमुनिना सह मैत्री उचिता इति भावः ।। ५९ ॥
धार्मिकास्तीर्थयात्रायामर्थयासु सोद्यमः । युवा विवाहे शूरच, युधि पश्चात् स्थितो यथा ॥ ६० ॥ जामातरं सुतां पुत्रं, तपसे प्रस्थितं गृहात् । भद्राऽऽलोक्य तदा मेने, तथा स्वमपि वञ्चितम् ॥ ६१ ॥ यथा । 'तीर्थयात्रायां' शत्रुञ्जयादितीर्थयात्रायाम् । 'धार्मिकाः' पश्चात् स्थिता: धार्मिकजनाः । 'अर्थयात्रासु'
सङ्गतिः सङ्गता शालचर्येण अनुचरत्वेन । वयता प्रष्टहणे । तदा' तस्मिन् काले।"धव्य
satasa8RSR88RSONASRSASASASRSANASNA
॥ २५५ ॥