________________
श्री
शालिभद्र महाकाव्यम्
FRERERY
किशोरीभि: । 'महेन्द्रवत्' देवेन्द्रवत् कल्पितः । 'गाढमूढाभिः ' अत्यर्थं मूढाभिः मोहवशाभि: । 'प्रौढाभिः ' प्रौढस्त्रीभिश्च । ‘कन्दर्पः' कामः इति कल्पितः चिन्तितः ॥ ४८ ॥ श्रीश्रेणिकनरेन्द्रेण 'सुपर्वणा' देवेन । गोभद्रेण । 'स्नुषाजुषा' पुत्रवधूहितया । 'साश्रुचक्षुषा' बाष्पपूर्णनयनया । 'भद्रया' भद्रामात्रा । चः समुच्चये । 'परीत' परिगतः ॥ ४९ ॥ ‘दीनानाथदरिद्रान्’ दीनान्-निराशान् अनाथान्-मात्रादिरहितान् दरिद्रान् निःस्वान् । 'लङ्खमङ्कविदूषकान्' लङ्खाः वंशाग्रादौ नृत्यादिकारिणः, मङ्खाः चित्रफलक - हस्ताः, विदूषका:- हास्यनर्मादिकारिणः तान् । 'अप्रमाणाभिः' अपरिमिताभिः । 'कल्याणमणिवृष्टिभिः' सुवर्णरत्नदानैः । 'प्रीणयन्' रञ्जयन् ॥ ५० ॥ 'वैराग्यसङ्गतः ' विरक्तियुक्त: । 'अनङ्गः' कामः ? | 'जङ्गमो वा' चलन् वा । 'श्रृङ्गारः' शृङ्गाररसः । 'भवभीत:' भवात् संसारात् भीतः । सः शालिभद्रः समवसरणं शरणं ययौ ॥ ५१ ॥
याप्ययानान्महामाना-दिवोत्तीर्य जगद्गुरुम् । स त्रिः प्रदक्षिणीकृत्य, प्रणम्येति व्यजिज्ञपत् । ॥ ५२ ॥ 'महामानादिव' महागौरवादिव । 'याप्यायानात्' शिबिकात: । 'उत्तीर्य' अवरुह्य । 'जगद्गुरुं' विश्वेश्वरं वीरम् । 'त्रि:' त्रिवारान् । 'प्रदक्षिणीकृत्य' प्रदक्षिणाः दत्वा । 'प्रणम्य' नमस्कृत्य । 'सः' शालिभद्रः । 'इति' अग्रे वक्ष्यमाणम् । 'व्यजिज्ञपत्' विज्ञप्ति चकार ।। ५२ ।।
निर्वाणश्रीपथे नाथ ! चारित्रेण मनोरथः । प्रमाणभूमिमभ्येतु, धर्मसारथिना त्वया ॥ ५३ ॥
'नाथ' हे स्वामिन् ! | 'निर्वाणश्रीपथे' निर्वाणस्य मोक्षस्य श्रीपथे राजमार्गे 'श्रीपथो राजवर्त्म च' इति हैम्याम् । 'चारित्रेण संयमेन अथवा च + अरित्रेण अरिभ्यः भावशत्रुभ्यः त्रायते अरित्रः तेन त्वया । 'धर्मसारथिना' मम धर्मरथे
R32
षष्ठः
प्रक्रमः
।। २५३ ।।