________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
'सौरभ्यवासिताऽऽशाभिः' सौरभ्येण-सुगन्धेन वासिताः आशा:-दिशः याभिः । 'मूर्ताभि:'-शरीरधारिणीभिः 'कीर्तिभिरिव' यशोभिः इव ॥ ४२ ॥ 'शमवारिधिडिण्डीरपिण्डैरिव' शमवारिधेः प्रशमाब्धेः ये डिण्डीरा:-फेनपुञ्जाः तेषां पिण्डैरिव औघेरिव समुज्ज्वलैः अतिशुभैः । 'सुखमामूलैः' सुखरूपा या मा लक्ष्मीः तस्या: मूलैः । 'लक्ष्मीः पद्मा रमा या मा' इति हैम्याम् । 'सुसोमालैः' सुकुमालैः । 'दुकूलैः' क्षौमैः वस्त्रविशेषैः । 'अलङ्कृतः' भूषितः ॥ ४३ । 'जिनार्चायाः' जिनप्रतिमाया: । अर्चाशब्दः प्रतिमार्थोऽपि । यदुक्तं हीरसौभाग्यटीकायाम् - 'जिनवरभवनानां भावतोऽर्चा नमामि' । 'अर्चा' पूजाम् । 'विधाय' कृत्वा । 'कृतकौतुकमङ्गलः' कृतं कौतुकरूपं परम्पराऽऽगतं मङ्गलं येन सः । 'दानसंमानैः' दानैः धनदानैः संमानैः सत्कारैश्च । 'अर्थिनः' याचकान् । 'सर्वथा' सर्वप्रकारेण । 'सम्भाव्य' संमान्य। 'वदान्यः' प्रियवचनः प्रदानशीलश्च सः ॥ ४४ ॥ 'नराष्टाग्रसहस्रोह्यविमानोत्सङ्गसङ्गतः' नराष्टाग्रसहस्रैः अष्टाधिकसहस्रनरैः उह्यः-वाह्यः विमान: याप्ययानं तस्य उत्सङ्गे मध्यभागे सङ्गत:-उपविष्टः । 'श्रीकरीशतशालिना' श्रीकरीणां शतैः शालते शोभते इत्येवंशीलः तेन । (श्रीकरी-'छडीदार' इति भाषायाम्) 'सितच्छत्रेण' श्वेतातपत्रेण सच्छायः युक्तः ॥ ४५ ॥ 'मानोन्नतैः' मानेन गौरवेण उन्नतैः उच्चैः । 'नतैः' ननैः । 'अमरैः' देवैः । चकारः पादपूर्ती । 'चामरैः' वालव्यजनैः । वीज्यमानः। 'वर्यतूर्यशतारावस्फुर्जज्जयजय-ध्वनिः' वर्यतूर्यशतानां सुन्दरशतवादित्राणां ये आरावा शब्दाः तैः स्फूर्जन गर्जन् 'जयजयध्वनि:' जय जय इति शब्दध्वनिः नादः यस्य सः ॥ ४६ ।। 'रम्भासङ्गीतसङ्गीतस्फुरद्धवलमङ्गलैः' रम्भा देवाङ्गना ताभिः सङ्गीतैः प्रारब्धैः सङ्गीतैः गीतैः स्फुरन्ति धवलमङ्गलानि यस्य सः । 'लसल्लाजाञ्जलिक्षेप-दक्षवृद्धाभिनन्दितः' लसन्तो ये लाजा: अक्षताः तेषां अञ्जलि: तस्य क्षेपे प्रक्षेपे दक्षा: प्रवीणाः याः वृद्धाः वृद्धस्त्रियः ताभिः अभिनन्दितः सन्मानितः ॥ ४७ ॥ 'बालाभिः' कन्याभिः । 'भूपालः' राजा इति । 'मुग्धाभिः'
ARRARAUAYA8A82828282828282888
॥ २५२॥