________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
नराष्टाग्रसहस्रोह्य-विमानोत्सङ्गसङ्गतः । सितच्छत्रेण सच्छायः, श्रीकरीशतशालिना ॥ ४५ ॥ चामरैश्चामरै र्वीज्य-मानो मानोन्नतै नतैः । वर्यतूर्यशताराव-स्फूर्जज्जयजयध्वनिः ॥ ४६ ॥ रम्भासङ्गीतसङ्गीत-स्फुरद्धवलमङ्गलः । लसल्लाजाञ्जलिक्षेप-दक्षवृद्धाभिनन्दितः ॥ ४७ ॥ 'भूपाल' दति बालाभिः, मुग्धाभिश्च महेन्द्रवत् । प्रौढाभिः गाढमूढाभिः, 'कन्दर्प' इति कल्पितः ॥ ४८॥ श्रीश्रेणिक नरेन्द्रेण, गोभद्रेण सुपर्वणा । परीतो भद्रया साश्रुचक्षुषा च स्नुषाजुषा ॥ ४९ ॥ दीनानाथदरिदांश्च, लङ्खमङ्खविदूषकान् । प्रीणयन्नप्रमाणाभिः, कल्याणमणिवृष्टिभिः ॥ ५० ॥ वैराग्यसङ्गतोऽनङ्गः, श्रृङ्गारो वाऽथ जङ्गमः । भवभीतः स समवसरणं शरणं ययौ ॥५१॥(द्वादशभिः कुलकम्)
अथ शालिभद्रः समवसरणं-देशनास्थानम् । 'शरणं' सदनम् । 'ययौ' गतः । कथम्भूतः सः? 'परितः' अभितः । 'स्फुरितप्रभैः' उल्लसितकान्तिभिः । 'धर्मध्यानैः' धर्मचिन्तनैः । 'आश्लिष्टः इव' आलिङ्गितः इव । 'द्विधा चन्द्रराधिकैः' चन्द्रादपि द्विधा-द्विप्रकारेण शीतलताप्रकाशाभ्यां अधिकैः उत्कृष्टैः । 'हरिचन्दनैः' गोशीर्षचन्दनैः । 'चर्चितः' विलिप्तः ॥ ४० ॥ 'ऐहिकामुष्मिकैः' इहपरलोकसम्बन्धिभिः । 'अतिप्रमाणैः' अपरिमितैः । 'कल्याणैरिव' मङ्गलैः कनकैश्च इव । 'तेजःसारैः' दीप्तिसारैः ‘भौमदिव्यैः' भौमै:-भूमिजातैः, दिव्यैः-दिवि स्वर्गे जातैः । 'मणीमयैः' रत्ननिर्मितैः, मणिशब्द ईकारान्तोऽपि वर्तते । 'अलङ्कारः' भूषणैः । अलङ्कृत इति अग्रे वक्ष्यति ॥ ४१ ॥ 'पारिजातक-सन्तानमन्दारोदारदामभिः' पारिजातक-सन्तानमन्दाराख्यकल्पवृक्षविशेषाणां उदारदामभि: बृहन्मालाभिः । कथम्भूताभिः ?
8282828282828282828282828282828282
॥ २५१॥