________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
"विवेकराज्ये' धर्मजाते विवेकसाम्राज्ये । 'सप्ताङ्गी' स्वाम्यादीनि सप्त राज्याङ्गानि तद्रूपाम् । 'स्वाम्यमात्यसुहृत्कोशो राष्ट्रदुर्गबलानि च' इति हैम्याम् । 'सप्तक्षेत्रीं' चतुर्विधसङ्घजिनमन्दिर-मूर्ति-जिनागमलक्षणाम् । 'घनैः' बहलैः । क्षेत्रपक्षे-मेघैः । 'धनैः' द्रव्यैः । 'पावयित्वा' आसिञ्च्य । अयं' शालिभद्रः । प्रशस्यश्रीनिबन्धनं' प्रशस्या या श्री: शिवश्री: तस्या: निबन्धनंहेतुं पुण्यरूपम् । पक्षे प्रकृष्टा या शस्यश्री: धान्यसम्पत्तिः तस्याः निबन्धनं-कारणम् । 'आतेने' अकरोत् ॥ ३७ ।।
अथ दीक्षाऽभिषेकाय, स्नानमण्डपमभ्यगात् । अदभ्रशरदभ्रौघ-मिव कन्यादिवाकरः ॥ ३८ ॥
अथ । 'कन्यादिवाकरः' कन्याभिध: य: षष्ठः राशिः तस्मिन् स्थित: दिवाकरः सूर्यः । 'अदभ्रशरदभ्रौघमिव' अदभ्रः-प्रभूत: शरदभ्रौघः शारदजलदसमूहः तमिव । 'दीक्षाभिषेकाय' दीक्षार्थं योऽभिषेकः स्नानं तदर्थम् । 'स्नानमण्डपं' मज्जनस्थानम् । 'अभ्यगात्' आगच्छति स्म । शरदूतावेव सूर्यः कन्याराशिमागच्छतीति प्रसिद्धमेव । शारदजलदा शुभ्रा भवन्ति, अत्रापि मण्डपः शुभ्रः तेनेयं कल्पना ॥ ३८ ॥
अथ चन्द्राधिकैद्वैधा, चर्चितो हरिचन्दनैः । धर्मध्यानैरिवाश्रृिष्टः, परितः स्फुरितप्रभैः ॥ ४० ॥ तेजःसारैरलङ्कारै-भीमदिव्यैर्मणीमयैः । अतिप्रमाणैः कल्याणै-रैहिकामुष्मिकैरिव ॥ ४१ ॥ पारिजातकसन्तान-मन्दारोदारदामभिः । सौरभ्यवासिताशाभिः, मूर्ताभिरिव कीर्तिभिः ॥ ४२ ॥ शमवारिधिडिण्डीर-पिण्डैरिव समुज्ज्वलैः । दुकूलैः सुखमामूलैः, कृतकौतुकमङ्गलः ॥ ४३ ॥ विधायार्चा जिनार्चायाः, कृतकौतुकमङ्गलः । सम्भाव्य दानसंमानैः, वदान्यः सर्वथाऽर्थिनः ॥ ४४ ॥
82828282828282828282828282828282888
॥ २५०॥