________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
मोक्षाभिलाषवती धीः मतिः यस्य सः । 'श्रेयसीभक्ती:' श्रेयसी कल्याणमयी भक्तिः यासां ताः । 'प्रेयसी' प्रियतमाः । 'आपपृच्छे' आपृच्छति स्म ॥ ३३ ॥
यूयं मातृपदाम्भोज-सारसंवर्तिका इव । वर्तध्वं सततं प्रीत्या, परस्परसुसंहताः ॥ ३४ ॥
यूयम् । 'मातृपदाम्भोजसारसंवर्तिका इव' भद्रामातुः पदाम्भोजे चरणकमले साराः सारभूताः संवर्तिका: कमलनवदलानि इव । ‘संवर्तिका स्यात् नवं दलम्' इति हैम्याम् । 'परस्परसुसंहताः परस्परं मिथः सुसंहताः सुमीलिताः । 'सततं' सदैव। 'प्रीत्या' प्रेम्णा 'वर्तध्वं' तिष्ठत ॥ ३४ ॥
भवतीनां जिनाज्ञेवा - राध्यमाना ममाम्बिका । चिन्तासम्भारसंसार - निस्ताराय भविष्यति ॥ ३५ ॥
'भवतीनां' युष्माकम् । 'जिनाज्ञा इव' अर्हदाज्ञा इव। 'आराध्यमाना' उपास्यमाना । मम अम्बिका माता भद्रा । 'चिन्तासम्भारसंसारनिस्ताराय' चिन्तानां यः सम्भार: समूह: सः एव संसारः तस्य निस्ताराय - पारगमनाय । भविष्यति ।। ३५ ।।
ततो विजितमोहारि - वीर-वीरजयन्तिका । चैत्येषु धर्मपूर्वाह्न मह्लायाष्टाह्निकां व्यधात् ॥ ३६ ॥
'ततः' तत्पश्चात् । जिनालयेषु । 'विजितमोहारि - वीरजयन्तिका' विजितः यः मोहारि:- मोहशत्रुः सः एव वीरः तस्य जयात् वीरजयन्तिका -विजयपताका तत्तुल्याम् । 'धर्मपूर्वाह्नं' धर्मस्य संयमधर्मस्य 'पूर्वाह्नं' पूर्वदिनम् । 'अष्टाह्निकां' अष्टदिनोत्सवम् । 'अह्नाय' शीघ्रम् । 'व्यधात् अकरोत् ॥ ३६ ॥
विवेकराज्ये सप्ताङ्गीं सप्तक्षेत्रीं घनैर्धनैः । प्लावयित्वाऽयमातेने, प्रशस्यश्रीनिबन्धनम् ॥ ३७ ॥
R
SANASANA
षष्ठः
प्रक्रमः
।। २४९ ।।